________________
174
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः मायाविद्यादिशब्दैः प्रकृति रभिमता ज्ञानकर्नादयो वे.
सर्वार्थसिद्धिः आस्तां श्रुतार्थापत्तिः, श्रुतिभिरेव भावरूपाज्ञानं सिध्यतीत्यत्राह - मायेति।
मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् ।
इत्यत्र न प्रकृतेर्मिथ्यात्वं प्रतिपाद्यते, यथाक्रममुद्दश्योपादेयस्थापनोपपत्तेः । अत्र हि पूर्ववाक्यस्थमायामायिशब्दार्थबुभुत्सायां प्रसिद्धार्थप्रकृतिमहेश्वरशब्दाभ्यां संशयादिरपाचिकीर्षितः । अन्यथा उद्देश्योपादेयक्रमविपर्यासः । तथा चाहुःयद्वत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् ।
आनन्ददायिनी प्रसङ्गसङ्गतिमाह-आस्तामिति। अत्र किं मिथ्यारूपाविद्यासाधको मायाशब्द उताविद्याशब्द आहोस्विदन्तशब्दो यद्वाऽ सच्छब्दोऽथवाऽव्याकृतशब्द उताहो तमश्शब्द इति विकल्पमभिप्रेत्याद्यं दूषयितुमुपक्रमते-श्रुतिभिरेवेत्यादिना । ननु प्रकृत्युदेशेन मायात्वविधाने मिथ्याभूतजगदुपादानसिद्धिरित्यत्राह--प्रकृतेरिति । 'अस्मान्मायी सृजते विश्वमेतत् ' इति पूर्ववाक्यविवरणत्वमस्येत्याह-अत्र हीति। आहुरिति । मीमांसका इति शेषः। ननु
पादपांसुना यूपमनक्ति ' ' दना जुहोति' पयसा जुहोति' ‘खादिरो यूपो भवति' 'यस्य पर्णमयी जुहूर्भवति ' इत्यादौ वैपरत्यिं दृष्टमिति चेत् श्रुत्यादिसस्कार्यताबोधकाभावे तन्नियमाङ्गीकारादिति भावः ।
रभिहिता-पा. श्रुत्या-पा. अत्र पूर्व-पा. “ति न च श्रुत्यादि सस्कार्यतादिबोध-क.