________________
सरः३]
भेदाभेदश्रुतिनिर्वाहपूर्वकं ब्रह्मणो बन्धप्रसङ्गाभावसमर्थनम्
173
सर्वार्थसिद्धिः इति । एवं प्रस्पष्टार्थसूत्रप्रतिष्ठापितस्वरसार्थानां भेदश्रुतीनां न त्वदभीष्टवत् प्रत्यक्षादिविरोध, प्रत्युतानुगुण्यमेव । तस्मादेवविधनिर्वाधानन्यपरबहुविधश्रुत्यनुसारेण जीवपरसामानाधिकरण्यस्य भेदनिषेधस्य च निर्वाहे संभवति निर्दोषकल्याणगुणाकरे ब्रह्मण्यविद्यादिदोषमाविष्कुर्वनात्मीयामसूयामेवाविष्करोषि । तन्निर्णीतं च मोक्षधर्मान्ते परस्य वन्धप्रसङ्गरहितत्वम् , इतरस्य बन्धमोक्षभागित्वं च ।
तत्र यः परमात्मा तु स नित्यो' निर्गुणो मतः । स तु नारायणो ज्ञेयम्सर्वात्मा पुरुषो हि सः ।। न लिप्यते कर्मफलैः पद्मपत्रमिवाम्भसा ।
कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैस्स युज्यते ॥ इति ॥ ४० ॥
इत्यविद्याकल्पकश्रुतार्थापत्तिभङ्गः.
आनन्ददायिनी काभाव इत्यत्राह-एवमिति। किंच वेदाचार्यों हि वेदार्थान्मोक्षधर्मे विशदमाविश्वकार, तदनुसारतस्सूत्र चेत्याह-निर्णीतं चेति। निर्गुणः सत्वरजस्तमोगुणरहितः; तस्यैव वैदिकप्रसिद्धेः। मोक्षबन्धैः संसारमोक्षाभ्यामित्यर्थः। केचित्तु व्यक्तयभिप्रायं बहुवचनमित्याहुः ॥ ४० ॥
अविद्याकल्पकश्रुतार्थापत्तिभङ्गः
1 निगुणः स्मृतः-पा.
पुरुषोत्तमः-पा.