________________
172
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
सर्वार्थसिद्धिः भवति "इति निदर्शितम् ; विष्णुरेव भूत्वेत्यादिन्यायाच्च । मोक्षधर्मे च
परेण परधर्मी च भवत्येष समेत्य वै ।
इत्यादिभिः परमसाम्यमेव प्रदर्शितम् । अनेन साम्यं यास्यामीति च मुमुक्षोरभि सन्धिरप्यभिधीयते । स्वयं चागीयत " मम साधर्म्यमागताः” इति । " इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः" इति जीवब्रह्मतादात्म्योक्त्याऽनिष्टप्रसङ्गमाशङ्कय " अधिकं तु भेदनिर्देशात्" इति च प्रत्युक्तम् । स्रष्टुस्सृज्यस्य भेदः श्रुत्यैव हि निर्दिश्यते ।
अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः ।
आनन्ददायिनी विष्णुरेवेति। 'वैष्णवं वामनमालभेत स्पर्धमानो विष्णुरेव भूत्वेमान् लोकानभिजयति' इत्यनेन समत्वादित्यर्थः । परेण समेत्य परस्य यो धर्मः साम्यं तद्वानासीदित्यर्थः । अनेन साम्यमिति । मुमुक्षोः कामनाविषयस्य विद्यासाध्यत्वात्तस्यैव मुक्तप्राप्यत्वादिति भावः । किंच जीवब्रह्मैक्यं सूत्रविद्विष्टं चेत्याह-इतरेति । ब्रह्मणः 'तत्त्वमसि' इत्यादिभिर्जीवतया व्यपदेशाज्जीवस्य च दुःखित्वाद्धितरूपजगदकरणमित्यादिदोषप्रसक्तया ब्रह्मणो जगत्कारणत्वं न संभवतीत्याशङ्कय 'करणाधिपाधिपः 'प्रधानक्षेत्रज्ञपतिर्गुणेशः' 'पृथगात्मानं प्रेरितारं च मत्वा' इत्यादिभिः परमात्मनो जीवादन्यस्यैव निर्देशान्न दोष इत्युक्तमित्यर्थः। साक्षाद्भेदप्रतिपादकशब्दोऽपीत्याह-स्रष्टुरित्यादिना। अन्यः मायिन ईश्वरादन्यः। नन्वभेदश्रुतीनामपि सत्त्वेनान्यतरस्यान्यतरानुसारित्वे विनिगम
1 मीति मु-पा.
2 संधिरभि-पा.
व निर्दि-पा.