________________
तरः ३]
जीवेश्वरभेदनाधन, परनलाम्मतेः मुक्त वेषपत्व च
171
सर्वार्थसिद्धिः ग्रहाच्च । एवं “ परात्परं पुरुषमुपैति दिव्यम्" इत्यादि । एतदपि सूत्रित " मुक्तोपसृप्यव्यपदेशाच्च" इति । "ब्रह्म वेद ब्रह्मैव भवति " इत्यादि वाक्यं तु “निरञ्जनः परमं साम्यमुपैति" इति मुक्तविषयतयैव प्राकरणिकेन वाक्येन परमसाम्यतत्परत या स्थापितार्थम् । परमसाम्य च " भोगमात्रसाम्यलिङ्गाच्च" इति सूत्रेण नियमितम् । श्रुयन्तरे च " नाहगेव
__ आनन्ददायिनी स च भेदो न कल्पितः, मुक्तिसाधनीभूतज्ञानविधायकस्यातत्त्वज्ञानोपदेशकत्वायोगात् , न चास्याभेदोपदेशकत्वमिति भावः । एवमिति । शरीरेन्द्रियादिभ्यः परो भिन्नो जीवः, तस्मात्परं भिन्नं ब्रह्म प्राप्नोतीत्यर्थः । कर्मकर्तृरूपभेदो मुक्तिकालीनो हि सत्य एवेत्यभिप्रायेणाह-एतदपीति । 'ब्रह्म वेद' इत्यत्र तस्यैवकारस्य — इववद्वैववार्थकाः' इति निघण्टुबलादिवार्थकत्वेऽपि तस्यैव ग्रहणमित्यत्र नियामकमाह-निरञ्जन इति । 'सन्दिग्धे तु वाक्यशेषात्' इति न्यायेन ‘छागो वा मन्त्रवर्णात्' इत्यत्राप्राकरणिकमन्त्रविशेषप्रतिपन्नविशेषपरत्वे केमुतिकन्यायेन च प्राकारणिकवाक्यशेषोपस्थापितविशेषपरत्वं सिद्धमिति भावः । ननु परमसाम्यमेवाभेद इति चेत् , तत्राह-परमसाम्यं चेति । भोगमात्रेति। साधारणधर्मोक्तेर्भेदस्य सिद्धत्वात् स्वपरन्यायसूत्रादिविरुद्धमभेदपरत्वमिति भावः । श्रुत्यन्तरे चेति । 'यथाशुद्धमुदकं शुद्ध उदक आसिक्तं तादृगेव भवति एवं मुनेर्विजानत आत्मा' इत्यादावित्यर्थः । इवार्थे एवकारस्य प्रयोगं च दर्शयति
1 इति वाक्य-पा.