SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 170 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक सर्वार्थसिद्धिः इति । तत्र च स्वतन्त्रपरतन्त्रविभागव्यञ्जकं सूत्र-" पराभिध्यानातु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ" इति। सुषुप्तिप्रायणयोश्च "प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् " इति “प्राज्ञेनात्मनाऽन्वारूढः उत्सर्जन याति" इति च। तत्रापि सूत्रं " सुषुप्त्युत्क्रान्त्योभैदेन" इति । मुक्तावस्थायामपि " सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता" इति । अत्र यदि भोक्तृसाहित्यमभिप्रेतं तदा सुव्यक्त एव भेदः । यदा तु प्रस्तुत'ब्राह्मणपदविवरणक्रमेण भोग्यसाहित्ये तात्पर्य तदाऽपि भोक्तु ग्यस्य च स्वारसिकी भेदधीर्न बाधमर्हति ; ब्राह्मणस्थपरशब्दानु आनन्ददायिनी पराभिध्यानं परस्य सङ्कल्पः। अनादिकर्मापराधात् परः स्वसंकल्पेन स्यापहतपाप्मत्वादिकल्याणरूपं तिरोधापयति । तत एव हि परमपुरुषजीवसङ्कल्पादेवास्य जीवस्य बन्धविपर्ययौ संसारमोक्षावित्यर्थः । सुषुप्तीति। तद्दशायामेव ज्ञानतदभावरूपविरुद्धधर्मप्रतिपत्तेस्स्वाभाविको भेदो वक्तव्य इत्यर्थः । सुषुप्तयुत्क्रान्त्योः सुषुप्तिकाले उत्क्रान्तिकाले च लुप्तसकलज्ञानात् प्रत्यगात्मनस्तदीनामेव सर्वज्ञतया भेदेन व्यपदेशात् प्रत्यगात्मनोऽथान्तरं परमात्मेत्यर्थः । अत्र प्राज्ञेन सम्परिष्वक्तः प्राज्ञेनान्वारूढ इति कर्मकर्तृव्यपदेशश्च भेदक इति ध्येयम् । प्रस्तुतब्राह्मणेति। ब्रह्मविदाप्नोति परम् ' इति ब्राह्मणं ; तत्र ब्रह्मपदविवरण 'सत्यं ज्ञानमतन्तं 'ब्रह्म' इति, वित्पदविवरणं 'यो वेद निहित गुहायाम्' इंति, परशब्दविवरणं 'सर्वान्कामान्त्सह ब्रह्मणा विपश्चिता' इत्येतद्वाक्यामत्यर्थः । ब्राह्मणस्थपरशब्देति । परशब्दस्य भेदार्थकत्वात् ब्राह्मणवाक्य एव भेदोऽवगम्यते । 1 ब्राह्मणविवरण-पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy