________________
सरः ३] बन्धमुक्योजीब इव दशाभेदेन ब्रह्मण्यज्ञाननिरवद्यत्वयोर्निवाहक्रमस्य रास 169
तत्त्वमुक्ताकलापः प्रत्यक्षादिप्रमाणानुगुणवहुविधश्रुत्यबाधेन तुं
शक्येऽप्यैक्यादिवाक्ये बहुगुणनिधये ब्रह्मणे - सूयसि त्वम् ॥ ४०॥
सर्वार्थसिद्धिः कथमित्यत्राह-प्रत्यक्षादीति । अयं भावः-यद्यपि जीवपरभेदश्रुति1 मात्रमवस्थाद्वयविषयमिति शङ्कितुं शक्येत, तथाऽप्येकैकस्यामेवावस्थायां जीवादन्यः परः प्रतिपाद्यते । जागरे तावत्
"तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति"। इति । तथा च सूत्रं 'स्थित्यदनाभ्यां च' इति ।
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । ___ जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति बीतशोकः ।। इति चोच्यते । स्वप्ने चय एषु सुप्तेषु जागर्ति कामकामं पुरुषो निर्मिमाणः'
आनन्ददायिनी स्यादित्यत्राह-अयं भाव इति । तदेव दर्शयति-जागर इति । एकशरीरसम्बन्धे सति एकस्यैव तस्मिन्नेव तत्कालावच्छेदेन भेदः कर्मफलभोक्तत्वं तदभावश्चेति विप्रतिषिद्धमिति भावः । स्थितिः अनश्नत्तया कर्मफलानि दीप्यमानस्यावस्थितिः। अदनं पिप्पलं स्वाद्वतीति कर्मफलानुभवः । उक्तश्रुतिसमानार्थं श्रुत्यन्तरमाह-समान इति । विस्तरस्तु भेदधिक्कारन्यक्कारे द्रष्टव्यः । एकस्मिन्काले स्वापजागरणे विरुद्धे ऐक्ये नोपपद्यते इत्यत्राह-स्वप्ने चेति ।
1 मात्रादवस्थाद्वयभिति-पा.