________________
168
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः शुद्धे ब्रह्मण्यविद्या न यदि न घटते तस्य जीवैक्यवाद
स्तस्मानिदोषताोक्तानपधिदशया निर्वहेदित्ययुक्तम्।
सर्वार्थसिद्धिः यदि निरवद्यत्वश्रुतिविषये ब्रह्मणि अविद्या कदाचिदपि न स्यादित्युच्येत, तर्हि तस्य जीवैक्योपदेशो न घटेत ; तस्मान्निर्दोषत्वश्रुतिस्त्वदभिमतजीववन्निवृत्ताविद्यस्वरूपपरतया निरुह्यतेति शङ्कतेशुद्ध इति । अत्र
स एव देवः कृतभूतभावनः स्वयं विशुद्धा विरजाः प्रकाशते ।
इत्यादिभिर्बद्धमुक्तावस्थाद्वयभागिनः कर्मवश्यादन्यत्वेन प्रमितस्य परस्य ब्रह्मणम्सदोषनिर्दोषावस्थाद्वयक्लप्तिस्साहसमित्यभिप्रायेणाहइत्ययुक्तमिति । " तत्त्वमस्ययमात्मा ब्रह्म' इत्युपदेशो भेदनिषेधश्च
आनन्ददायिनी ननु निरवद्यत्वश्रुतिः कथंचिन्नतव्या; तथा च न श्रुतिबाधोऽनुमानस्येत्याक्षेपसङ्गत्याऽऽह-यदीति । जीवैक्योपदेश इति । अविद्याश्रयत्वाभावे भेदस्याविद्यकत्वाभावेन स्वाभाविकत्वे ऐक्यस्यासम्भवादिति भावः । ननु भेदश्रुतीनामेव कथंचिन्नयनं कुतो न
1 एष देव.-पा.