SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ सरः ३] ब्रह्माशानकल्पनामते निरवद्यत्वश्रुतिविरोधोद्भावनम् 165 तत्वमुक्ताकलापः मिथ्यात्वादोषभावो न भवति यदि किं तन्निरालप्रयासै. रुच्छेत्तव्यापुमर्थान्वयत इह परः कोऽभिल ष्येत दोषः ॥ ३९॥ सर्वार्थसिद्धिः भावादिति शङ्कते-मिथ्यात्वादिति । परिहरति-किमिति । यद्यविद्यादीनां स्वकालसत्त्वं दोषत्व च न स्यात् तर्हि किं तन्निरासार्थसाधनचतुष्टयसंपत्तिपूर्वकश्रवणमनननिदिध्यासनप्रयासैः ? अविद्यानिरासकदर्शनार्थमेव हि तद्विधिमातिष्ठध्वे । नन्वसत्यस्य दोषत्वमप्यसत्य, तादृशदोषवत्त्वेऽपि तात्त्विकदोषात्यन्ताभावान्निर्दोषत्वश्रुतिरर्थवनी' स्यादित्यत्राह-उच्छेत्तव्येति । असत्योऽपि दोष उच्छेत्तव्यो न वा ? पूर्वत्र तादृशापुरुषार्थान्वयादतिरिक्तः को नाम दोषशब्दार्थः ? उत्तरत्र आनन्ददायिनी ऽस्त्विति चेत् न, स्वस्यैवेतरत्वेनाभिमतजीवानन्यत्वात् कल्पिताधिष्ठानत्वविशिष्टं कल्पिताधिष्ठानमिति शुद्धं ब्रह्म, यद्वा कल्पिताधिष्ठानत्वविशिष्टं जगत्कारणं ब्रह्मशब्दवाच्यमिति वा बोध्यम् । 4 मोक्षार्थ श्रवणादिप्रयास इत्यत्राह-अविद्यानिरासकेति। तन्निवृत्तरेव मोक्षत्वादिति भावः । पूर्वत्रेति । उच्छेत्तव्यस्य दोषत्वादिति भावः । उत्तरत्रेति । नन्वनुच्छेद्यत्वपक्षे कथं तदर्थप्रवृत्तिनैरर्थक्यमापाद्यते 1 तीत्यत्राह-पा. 2 यातिरिक्त.-पा. ब्रह्म तद्वा-ग. 4 ननु क्षा-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy