________________
164
सव्याख्यसर्वार्थसिद्धि पहिततत्त्वमुक्ताकलाप
नायक
तत्त्वमुक्ताकलापः न खलु विषयतामभ्युपेयादविद्या ___ न क्षेत्रज्ञोऽपि तापत्रयपरितपनानापि तद्ब्रह्म मौग्ध्यात्।
सर्वार्थसिद्धिः बाह्यत्वापातात् । न चासौ स्तोभवन्निरर्थिका ; स्वबोधितेऽर्थे स्वतः प्रामाण्यात् । अतस्सविषयत्वे केवलमविद्यैव वा तद्विषयः, तत्कल्पितो जीवा वा, तदवरुद्ध ब्रह्म वेति विकल्प विभाव्य प्रथमं प्रतिक्षिपति --- न खल्विति । 'निरवद्यम्' इति श्रुतिब्रह्मैव विशिनष्टि, न त्वविद्याम् ; त्वपक्षे यविद्यान्तराभावात् निरवद्यत्वश्रुतिस्तद्विषया स्यादित्युपालभ्भका कूक्तिरियम् । अतो नात्राभागिप्रतिषेधः । द्वितीयं दूषयति-न क्षेत्रज्ञ इति । न हि त्वन्मते प्रतिबिम्बप्रायस्य जीवस्यावस्थान्तरेणापि निर्दोषत्वमिति भावः। तथैव तृतीयमपि निरस्यति-नापीति। तच्छब्देन सर्वाध्यासाधिष्ठानत्वादिसूचनम् । मौग्ध्यात्-अविद्यातिरोहितस्वप्रकाशस्वादित्याशयः । ननु कल्पिते जीवे कल्पनाधिष्ठाने ब्रह्मणि वा 1 निरवद्यत्वादिश्रुतिस्सबोभवीति, अविद्यातत्कार्याणामसत्यतया दोषत्वा
आनन्ददायिनी भावः । न चेति । सामभागपूरणार्थीह्नादिशब्दरूपम्तोभवन्निरर्थकस्वाभावादिति भावः । अभागिप्रतिषेधः-अप्रसक्तप्रतिषेधः । अविद्याविषयत्वे अविद्यान्तराभावेनाप्रसक्तप्रतिषेधो वक्तव्यो भवतीति भावः । ननु मौग्ध्यमप्यविद्याश्रयत्वमेव, न च तन्मात्रदोषः, तथात्वे सिद्धान्तेऽपि ज्ञानविरोधिकर्माश्रयत्वेन ब्रह्मणो दोषापत्तरित्यत्राहअविद्यातिरोहितेति। नान्वतरं प्रति तिरोधायिकर्भाश्रयत्वं ब्रह्मणो
1 निरवद्यत्वश्रु-पा. 2णार्थाबादि-ग.