________________
सरः ३] दृष्टान्ते साध्यवेकल्यापादनेन चित्सुखोक्तभावरूपाशानसाधकानुमानदूषणम् 163
तत्त्वमुक्ताकलापः अस्पृष्टावद्यतोक्ते
सर्वार्थसिद्धिः अभावान्तरनिवर्तकत्वेऽपि विरोधाभावात् । दण्डचक्रादयो हि स्वाभावातिरिक्तं घटाभावं निवर्तयन्ति । तद्वदेवदत्तप्रमाऽपि सस्कारोत्पत्तिहेतुभूता स्वसंस्कारप्रागभावं ध्वंसयत्येव । एतत्परिहाराय अभावव्यतिरिक्तानादिध्वंसिनीत्येतावन्मात्रमुपाददीमहाति चेत् । हन्त तर्हि सिद्धसाधनत्वं परिजिहीर्षता दृष्टान्तस्य साध्यविकलत्वापत्तौ न दृष्टिीयते ।। ३८ ॥
इति चित्सुखोक्तभावरूपाज्ञानानुमानभङ्गः.
अथ ब्रह्माज्ञानकल्पनां श्रुतिविरोधेन निर्मूलयति-अस्पृष्टेति । न तावन्निरवद्यत्वश्रुतिरनादर्तव्या; सर्वश्रुत्यनादरप्रसङ्गेन निष्कञ्चक
आनन्ददायिनी दूषयति-अभावान्तरेति । हन्त तहीति । ननु देवदत्तस्थाभावातिरिक्तत्वेन विशेषणे नैष दोष इति चेत् , मैवं ; घटादिजनकस्योपादानज्ञानस्य तत्प्रागभावनिवर्तकत्वात् वेद्यगताभिव्यक्तिप्रागभावनिवर्तकत्वाच्च न स्वाभिमतसिद्धिरिति भावः ॥ ३८ ॥
चित्सुखोक्तभावरूपाज्ञानानुमानभङ्ग.
निरवद्यत्वश्रुतिबाधितान्यनुमानानीति पूर्वसङ्गत्याऽऽह-अथेति । अनुमानेना विद्या यतः ब्रह्मणो जीवस्य वा साध्या उभयथाऽपि ब्रह्मणस्सावद्यत्वप्रसङ्ग इति भावः। सर्वश्रुतीति । अविशेषादिति
1 विद्याधीतब-ग.
11*