SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 162 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक तत्त्वमुक्ताकलापः दृष्टान्ते ध्वंसकत्वं न च विदितमिदं ध्वंसतामात्रसिद्धेः ॥ ३८॥ सर्वार्थसिद्धिः दृष्टान्त इति । उक्त हि पूर्वमेव प्रागभावस्य कार्यस्य चैकक्षणसंपातायोगात्तयोर्वध्यघातकभावो न संभवति । एतदेवाभिप्रेत्याह-ध्वंसतामात्रसिद्धेरिति। अपि चात्र स्वप्रागभावातिरिक्तानादिध्वंसकत्वसाधने तद्धसनीयमनादि किंचिद्भावरूपमिति कुतस्सिद्धम् ? न तावयाप्तया, दृष्टान्ते तदसिद्धेः । नापि पक्षधर्मताबलात् , पक्षस्थस्य हेतोस्तादृशबलादृष्टेः ; दृष्टस्य च पक्षधर्मसंबन्धमात्ररूपस्य पक्षसाध्यसंबन्धमात्रार्थत्वात् । न च परिशेषात् ; आनन्ददायिनी निवर्तकत्वासिद्धेरिति भावः । ननु कथं दृष्टान्तासिद्धिः ; प्रागभावनिवर्तकत्वं प्रतियोगिनोऽस्त्वित्यत्राह-प्रागभावस्येति । निवर्तकत्वं हि निवृत्तिजनकत्वं । तच्च तत्पूर्वक्षण सत्त्वं तत्प्रागभावनिवृत्तिश्च प्रतियोगी वा तदन्यो वा ; नाद्यः-स्वस्य स्वजनकत्वायोगात् । न द्वितीयः-निवर्त्यनिवर्तकयोस्समान कालत्वस्य वक्तव्यत्वात् प्रागभावप्रतियोगिनो - तदुभयमिति भावः । अपि चेति । निवर्तनीयस्य स्वप्रागभावातिरिक्तत्वसिद्धावप्यभावान्तरं भवत् कथमिव वार्यमिति भावः । पारिशेष्यं 1 च तादृशपक्ष-पा. * कथ वार्य-ग. 2 सत्त प्राग-क. कालीनत्वस्य-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy