________________
सरः ३] निद्धसाधनत्वाद्यापादनेन चित्सुखोक्तभावरूनाज्ञानसायकानुमाननिरात. 161
सर्वार्थसिद्धिः परान् प्रति प्रयोगायोगात्। किंच देवदत्तनिष्ठधारावाहिकद्वितीयादिज्ञानेषु देवदत्तप्रभाभावातिरिक्तानादिनिवर्तकत्वाभावेऽपि प्रमात्वं दृष्टम् , तद्व्यवच्छेदाय पूर्ववदप्रकाशितार्थप्रमात्वादिविशेषणेऽपि देवदत्तप्रमान्तराभावातिरिक्तानादिस्वप्रागभावध्वंसनात् सिद्धसाधनत्वम् । देवदत्तप्रमाभावत्वात्यन्ताभाववदनादिध्वंसकत्व साध्यमिति चेत् , इदमपि स्वजन्यसंस्कारप्रागभावध्वंसनेन दत्तोत्तरमव । किंच, अनादेवंसिनीत्यत्र ध्वंसरूपत्वमानं वा ध्वंससबन्धित्वं वा ध्वसहेतुत्वं वा विवक्षितम् । नाद्यः-अनभ्युपगमात् । न च ध्वंसो घातक इति युज्यते । न द्वितीयः-विवक्षितस्याज्ञाननिवर्तकत्वस्यानुक्तेः। अस्ति हि स्वजन्यसंस्कारप्रागभावोऽनादिः, तस्य च ध्वंसरूपस्सस्कार एकाश्रयत्वादिना स्वसंबन्धी च । दृष्टान्ते चानादिप्रतियोगिकध्वंससंबन्धित्वासिद्धेः । अतस्तृतीयः परिशिष्यते । अत्रापि दृष्टान्तस्य साध्यविकलत्वमाह
आनन्ददायिनी किं प्रमात्वमात्रं हेतुः, उत विशेषितमिति विकल्पमभिप्रेत्याध आहकिं च देवदत्त इति। द्वितीय आह--तद्वयवच्छेदेति। तत्र किं यत्किंचित्प्रमाभावातिरिक्तत्वं विवक्षितं, उत तत्स्थप्रमाभावत्वावच्छिन्नातिरिक्तत्वरूपसामान्याभाव इति विकल्प्याद्य आह--देवदत्तप्रमान्तरेति । द्वितीय शङ्कते- देवदत्तेति । स्वजन्येति । तत्रैव निवर्तकत्वस्य मुख्यत्वादिति भावः । कृत्तद्धितसन्देहादाह-किं चानादेरिति। अनभ्युपगमे हेतुमाह--न चेति । नन्वन्यस्य संबन्धस्यासम्भवात् परिशेषान्निवय॑निवर्तकभावसिद्धिरित्यत्राह --अस्ति हीति । दृष्टान्ते चेति । यज्ञदत्तप्रमाया अपि पक्ष'तुल्यत्वानिवृत्ति रूपत्वे
1 तुल्यत्वेन निवृ-ग. 2 रूपत्वेन निव-क. SARVARTHA VOL. IV
11