________________
160
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
सर्वार्थसिद्धिः भेदक्लप्तिरिति चेन्न ; स्वानभ्युपगतस्य साधनाङ्गत्वेनोपादानायोगात् । अस्तु नानाजीवमतेन दृष्टान्तोक्तिरिति चेन्न : तन्मतेऽपि जीवानां प्रमाधारत्वासिद्धेः । न हि स्वरूपचैतन्यं वा साक्षिचैतन्यं वा जीवतया कल्पितं वा जीवाश्रितमिति युष्माभिः कल्प्यते । वृत्तिरूपा प्रमाऽन्तःकरणनिष्ठा कथ्यते । अतः पुरुषस्थतया प्रमानिर्देशो न युक्तः । कृपाणादिप्रतिफलितमुखमलिनिमादिन्यायेन प्रातीतिकतया पुरुषस्थत्वोक्तिरिति चेन्न ; प्रातीतिकस तामर्थक्रियाकारित्वानभ्युपगमात् । अन्तःकरणवृत्तिद्वयमेव पक्षदृष्टान्ताविति चेन्न ; तस्य परसंमत्यभावेन
आनन्ददायिनी स्वानभ्युपगतस्येति । अप सिद्धान्तदूषणं न स्यादिति भावः । अत्र किं देवदत्तादि-शब्देन जीवचैतन्यं विवक्षितं, उतान्तःकरणं, देवदत्तप्रमेत्यत्र समासान्तर्गतषष्ठ्यर्थः किमाधाराधेयभावसम्बन्धः, उत यः कश्चिद्वैज्ञानिक इति, तथा प्रमाशब्देनापि चैतन्यमेव उत वृत्तिज्ञानमिति विकल्पमभिप्रेत्याचे दोषमाह--न हि स्वरूपेति । चैतन्यं हि परमते त्रिधा भिद्यते। शुद्धचैतन्यं ब्रह्म, अन्तःकरणवृत्त्युपहितचैतन्यं साक्षि, अन्तःकरणाद्यपाधिविशिष्टचैतन्यं जीव इति इदं चैतन्यरूपप्रमाणाश्रयमित्यर्थः । प्रमेत्यत्र विकल्पे द्वितीयमपाकरोति --वृत्तिरूपेति । सम्बन्धे द्वितीयमाशङ्कते----कृपाणेति । सम्बन्धाभावेऽपि प्रातीतिकसम्बन्धेन साधयति चेत् सर्व सर्वत्र साधयेदिति सर्व केवलान्वयि स्यादित्याह-नेति। द्वितीयमाशङ्कते-अन्तःकरणेति । तस्य परसम्मत्यभावेनेति। तथाचाश्रयासिद्धिरिति भावः । किंच
1 भेदसिद्धिरिति-पा. सत्तायामर्थ-पा. ' सिद्धान्तासिद्धान्ताभ्यनुज्ञानादिदू-ग. 4 शब्दे चै-ग. 5 करणाद्युपहित-क.