________________
166
सव्याख्यसर्वार्थसिद्धिसहिततत्त्व नुक्ताकलापे
[नायक
सर्वार्थसिद्धिः तन्निरासप्रयासनैरर्थक्यमेवेति भावः । अनिर्वचनीयस्य नित्यनिवृत्त. स्वरूपस्य किं निवर्तनेन ? अत्यन्ताभावस्यासंपाद्यत्वात्तत्प्रतिभासोsप्यनिर्वचनीय एवेति सोऽपि नित्यनिवृत्तित्वान्न संपाद्यनिवृत्तिः । किंच तात्त्विकदोषः श्रुत्या निरस्यत इति वदता स दोषः किं ब्रह्मस्वरूपमेवेत्यभिमतम् ? अन्यद्वा किञ्चित् । पूर्वत्र किं तदधीनसत्ताकयाऽविद्यया ? तेन च सर्वोपपत्तेः दोषभूतस्वाधीनप्रकाशतया ब्रह्मापि मिथ्या स्यात् । उत्तरत्र द्वैतापत्तिः ; यत्र क्वचिद्विद्यमानत्वाभावे तात्त्वि
आनन्ददायिनी तत्प्रयत्नस्यैवानङ्गीकारादिति चेत् । तथा सति तत्र प्रवर्तकश्रोतव्यादिविधिवैयर्थ्यमिति भावः । इदं दूषणमुच्छेत्तव्यपक्षेऽपि सममित्याह - अनिर्वचनीयस्येति। पूर्वत्रेति। तात्विकब्रह्मरूपदोषादेव प्रपञ्चभ्रमोपपत्तेरिति भावः । ननु प्रपञ्चस्य मिथ्याभूतोपादानकत्वेन मिथ्यात्वसिद्धयर्थमविद्यति चेदत्राह-दोषमतेति । कैमुत्यन्यायेन प्रपञ्चमिथ्यात्वं सिध्यतीति न तदर्थमविद्येति भावः । ननु दोषरूपत्वेऽपि प्रकाशस्य दोषजन्यत्वाभावान्न तत्प्रकाशस्य मिथ्यात्वं वस्तुतः प्रकाशकर्मत्वरूपप्रकाश्यत्वं च नास्तीति चेत् ; अत्र वदन्ति-ब्रह्मणो दोषत्वं तदधीनप्रकाशस्य मिथ्यात्वं विना नोपपद्यते, अन्यथा परिभाषापत्तेः। तथाच तद्व्यतिरिक्ताविद्यया प्रपञ्चभ्रममिथ्यात्वयोरुपपत्तौ स्वस्यैव ब्रह्मस्वरूपदोषाधीनप्रकाशत्वादिकं वक्तव्यमिति दोषतादवस्थ्यमिति। 'ननु क्वचित् तत्स्वरूपसत्त्वे अद्वैतविरोधः । तदेव नास्तीत्यत्राह-यत्र क्वचिदिति। शशशृङ्गवदिति भावः। नन्वन्यत्र
1 न क-क.