________________
158
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्काकलापे
नायक
तत्त्वमुक्ताकलापः यञ्चोक्तं देवदत्ती मिति'रितरमितिन्यायतो हन्त्यनादि
मात्वानन्मित्यभावाधिकमिति तदपि स्यादबाधं विपक्षे।
सर्वार्थसिद्धिः यत्तु कश्चिदाहदेवदत्तप्रमा तत्स्थप्रमाभावातिरोकिणः ।
अनादेवंसिनी मात्वाद्याज्ञदत्तप्रमा यथा ।। इति, तदनुभाषते-यच्चेति । दषयति-तदिति। अपिना पूर्वानुमानेऽप्ययं दोषोऽस्तीति ख्याप्यते । विपक्षे बाधकमेव हि प्रतिबन्धरहस्यमाहुः, न चेह तदस्ति ; अतो नेदं साधकामिति भावः ।
__ आनन्ददायिनी प्रसङ्गसङ्गतिरित्याह-यचिति । चित्सुखोक्तकारिकां पठतिदेवदत्तेति । देवदत्तप्रमा तत्स्थप्रमाभावव्यतिरिक्तानादिनिवर्तिका प्रमात्वात् यज्ञदत्तप्रमावदिति प्रयोगो द्रष्टव्यः। सिद्धसाधनवारणाय देवदत्तेति पक्षविशेषणम्। प्रागभावनिवर्तकत्वेन सिद्धसाधनवारणाय प्रमाभावव्यतिरिक्तेति। तावत्युक्ते दृष्टान्ते साध्यवैकल्यम् ; तत्परिहाराय तत्स्थेति। पूर्वज्ञानादिनिवर्तकत्वेन सिद्धसाधनपरिहारायानादीति। प्रतिबन्धः
1 मति-पा ' तन्मत्य-पा.
तदीयप्रमा-क.
प्रमाभावव्यतिरेकीति-क.