________________
रः ३]पूर्वोक्तानुमाने उद्भावितविकल्पघटकनिरास., असिद्धयादिदोषान्तरापादन च 157
सर्वार्थसिद्धिः श्यत एवेति । चकारात् दोषान्तराण्यपि द्योत्यन्ते । तथा हिवप्रागभावव्यतिरिक्तेति स्वदेशगतेति च पृथगुपादानं निरर्थकम् ; अभावव्यतिरिक्तेत्येतावतैव वेद्यगतवित्त्यभिव्यक्तिप्रागभावस्यापि व्यवच्छत्तेः । स्वविषयावरणे च स्थिते स्वोत्पत्तिरेव न संभव तीत्युक्तम् । ब्रह्माश्रयतया चाभ्युपगतस्य विश्वप्रकृतेः तदज्ञानस्य च न घटाद्यज्ञानवत् माणज्ञानदेशगतत्वं युक्तमिति ॥ ३७॥
इति पञ्चपादिकाविवरणोक्तभावरूपाज्ञानानुमानभङ्गः.
अनन्ददायिनी स्वादिति चेत् । अत्राहुः--स्वविषयावरणनिवर्तकत्वं हि प्रागभावादिनिवर्तकत्वेप्यस्तीति वक्तव्यम् , अन्यथा तदादाय सिद्धसाधनादिवारणाय विशेषणवैयर्थ्यात् । तथाच धारादिद्वितीयादिज्ञानेऽपि व्यभिचार इति तद्वयवच्छेदार्थ विशिष्टमेव हेतुभाव भजते । भावरूपमेव चावरणं सिसाधयिषितमिति साध्याविशेष इति । आश्रयासिद्धिरित्याहस्वविषयावरणे चेति। आवरणं नाम तज्ज्ञानोत्पत्तिज्ञानप्रतिबन्धः ; तस्मिन् सति कथं तदुत्पत्तिः । न च नवीनोक्तरीत्या नास्ति न प्रकाशत इति व्यवहारजनकत्वाद्व्यवहारसामग्रयां सत्यामिति वक्तुं शक्यं ; व्यवहारसामग्रयन्तर्गतस्य स्वविषयनिश्चयस्य सत्त्वेऽपि यदि नास्तीत्याद्यावरणसत्त्वं तथा सत्यावरणनिवृत्तिरेव न स्यादविरोधात् ; न चाविद्यानिवृत्तिरस्तु तन्निवृत्तयाऽऽवरणाभाव इति शक्यशङ्कम् । अविद्याया एव विरोधेन समकालत्वाभावे तत्कार्यावरणादेः सुतरां तत्कालत्वायोगादिति भावः। किंच बाघोऽनिष्टं चेत्याह-विश्वप्रकृतेरिति । अन्यथा जीवस्य विश्वोपादानत्वप्रसङ्ग इति भावः ॥ ३७ ॥
विवरणोक्ताभावरूपाज्ञानानुमानभङ्गा.
1 वक्तव्यं, तदादा-क.