________________
156
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
सर्वार्थसिद्धिः नाद्यः-आत्मादृष्टादिभिरैनकान्त्यात् , ज्ञानस्य च ज्ञानहेतुत्वनियमाभावात् । अत एव न द्वितीयतृतीयौ-इन्द्रियादिप्वतिचाराच्च । नापि चतुर्थः-दृष्टान्तस्य साधनविकलत्वात् , साक्षिज्ञाने च विपक्षे हेतुवृत्तेस्सपक्षवृत्त्यभावाच्च विरुद्धत्वापत्तेः । नापि पश्चम -पक्षसपक्षयोर्हेतुवृत्त्यभावादेव । नापि षष्ठः-तस्य साध्यानुप्रविष्टत्वात् । सप्तमस्तु-कश्चिन्न
आनन्ददायिनी भावः। असिद्धि'मप्याह-ज्ञानस्य चेति। परामर्शादेस्तद्धेतुत्वादाह-नियमाभावादिति। सव्यापारत्वं करणत्वं, तच्चात्मादावप्यस्तीति व्यभिचार इत्यभिप्रायेणाह-अत एवेति । यदीन्द्रियादेरेव करणत्वमिति नियमः, तदा तत्रैव व्यभिचार इत्याह--इन्द्रियादिविति । दृष्टान्तस्येति । प्रदीपस्य ज्ञानत्वाभावेन व्याप्यत्वासिद्धिरिति भावः । साविज्ञाने चेति । ननु साक्षिप्रकाशस्याप्रकाशितार्थप्रकाशत्वेनैव हेतुत्वं वाच्यम् । तथा च ज्ञाननिवर्तकत्वमप्यस्त्येवेति कथं विपक्षवृत्तित्वमिति चेत् । अत्र वदन्ति-साविज्ञानं न स्वत एवाज्ञाननिवर्तकम् । तथासति ज्ञानस्यानादिनिवृत्तिप्रसङ्गात् । एवं च प्रमाणज्ञानसाहित्ये सति निवर्तकत्वम् । तथाच न साध्यवत्त्वं, अप्रकाशितार्थप्रकाशकत्वं तु रूप्यादिप्रकाशकत्वेनाप्युपपद्यते । रूप्यादे. रध्यासात् प्रागप्रकाशितत्वाद्वस्तुतः प्रागभावाभावात् तद्धटितं साध्यं नेति बोध्यमिति । विषयगतं यत् घटः स्फुरतीति स्फुरणं तत्त्वमिति पञ्चमं पक्षमाह--नापि पञ्चम इति । प्रमाणज्ञानस्य विषयगतस्फुरणत्वाभावादिति भावः। तस्येति । ननु स्वविषयावरणनिवर्तकत्वं साध्यानुप्रविष्टं भवतु; न तावताऽपि साध्याविशेषो विशिष्टस्यान्य
1 द्धिमाह-ग. काशकत्वे-क. हेतुमत्तु-ग. * चाचान-क.