________________
सर. ३]
पञ्चपादिकाविवरणोक्तानुमानस्य निरासार्थ षोढा विकल्पनम्
तत्त्वमुक्ताकलापः
व्यर्थाऽसाविन्द्रियादिष्वतिचरणमसिद्ध्यादि च
स्याद्विकल्पे ॥ ३७ ॥
सर्वार्थसिद्धिः
ज्ञानमनयाऽनुमित्या न निरस्येत, निष्फलैवासौ प्रसज्येत : निरसनीयाभावात्, प्रकाशितमात्र प्रकाशकत्वाद्वा । अपि चेयमनुमितिः पक्षकोटि - स्तदन्या वा ? आधेंऽशतो बाघः ; द्वितीये तस्यामतिचारः । हेतुविकल्पे च दोषानाह —— इन्द्रियादिष्विति । अयं भावः - प्रकाशहेतुत्वमिह - ज्ञानहेतुत्वम्, ज्ञानकरणत्वम्, तदनुग्राहकत्वम्, ज्ञानत्वम्, विषयविस्फुरणरूपत्वम् स्वविषयावरणनिरास कत्वमन्यद्वा किश्चित् !
,
155
आनन्ददायिनी
साक्षिविषयत्वात् कथं न दृश्यते कथतरां स्वरूपालाभ इति चेत् । अत्र वदन्ति - मिथ्याभूतस्याध्या सेनैव स्वरूपलाभः । अध्यासो हि ज्ञाततयैव, अन्यथाप्रतिभासमानकालत्वायोगनानादितापातात् । तथा च ज्ञानाघीनसत्ताकस्य ज्ञानविषयत्वाभावे स्वरूपालाभ एवेति नाज्ञाततयाऽपि प्रकाश इति । नन्वज्ञानानिवर्तकत्वेऽपि प्रकाशकत्वात् सार्थक्यमिति चेत्तत्राह - प्रकाशितमात्रेति । तद्गोचराज्ञाने सति तत्प्रकाशायोगात् ज्ञानान्तरेण तन्निवृत्तौ तत एव तत्प्रकाश इति वैयर्थ्यम् । स्वत एवाज्ञानशून्यत्वे सुतरां वैयर्थ्यमिति भावः । अतिचारः - व्यभिचारः । नन्विन्द्रियादिष्वतिचरणमित्यनुपपन्न स्वार्थिककप्रत्ययान्तस्य प्रकाशकशब्दस्येन्द्रियादिबोधकत्वाभावादित्यत्राह -
अयं भाव इति । तस्य कप्रत्ययान्ताकप्रत्ययान्तसाधारण्यादिति
1 साsपीन्द्रिया-पा.
3 ण निवृत्तौ - क.
3
2
शत्वा-क.