SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 161 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक तत्वमुक्ताकलापः ध्वान्तोत्थाद्यप्रभाववि मतमतिशिहापूर्वनिर्भासनाञ्चेत् । अज्ञानाज्ञानभेत्त्री किमियमनुमितिः स्वेष्टभङ्गोऽन्यथा तु सर्वार्थसिद्धिः निवर्त्यवस्त्वन्तरपूर्वकम् , अप्रकाशितार्थप्रकाशकत्वात् , अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति प्रयोगः । अत्रैतदनुमानज्ञानं स्वविषयावरणनिवर्तकं न वेति विकल्पे प्रथममनुयुले--अज्ञानेति । तदभ्युपगमेऽनिष्टमाह- स्वेष्टभङ्ग इति । अज्ञानस्य ह्यज्ञानान्तरावृतत्वे तदपि तथेत्यनन्ताविद्याक्लप्तिगौरवं स्यात्, आवृता च साक्षिणा न दृश्येत । तत्कटाक्षविरहादलब्धस्वरूपा वन्ध्यासुतेव न प्रजाः प्रजनयेदिति भावः । द्वितीयमनूद्य दूषयति-अन्यथा विति । यद्यज्ञानविषया आनन्ददायिनी प्रागभावात् भिन्नं च स्वविषयावरणं च स्वनिवयं च यत् वस्त्वन्तरं तत्पूर्वकमित्यर्थः । स्वभागभावम्य वेद्यगतवित्त्यभिव्यक्तिप्रागभावस्वोत्पादकादृष्टस्वोत्पत्तिप्रतिबन्धकादृष्टानि साध्यविशेषणव्यवच्छेद्यानि । वस्त्वन्तरशब्दो वैशद्यार्थः । धाराद्वितीयज्ञाने व्यभिचारवारणायाप्रकाशित. शब्दः। आलोकमध्यारोपितदीपव्यवच्छेदार्थोऽन्धकारशब्दः । द्वितीयादिप्रमाव्यवच्छेदक प्रथमोत्पन्नशब्दः । इन्द्रनीलप्रभाव्यावृत्तये प्रदीपग्रहणमिति विशेषणप्रयोजन द्रष्टव्यम् ! अनुमानज्ञान-अज्ञानविषयकानुमितिरित्यर्थः । नन्वज्ञानविषयकाज्ञानाप्यन्त्येव, तन्निवर्तन चानुमित्याऽस्त्वित्यत्राह-अज्ञानस्येति । किं चाज्ञानस्याप्यावृतत्वेऽज्ञानस्याध्यास एव न स्यादित्याह-आवृता चेति । ननु सर्व ज्ञाततयाऽज्ञाततया 1 मतमिति-पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy