________________
सर. ३]
भावरूपाशानपक्षानुवाद', तन्निरसनं च
151
तत्त्वमुक्ताकलापः तद्विरोधादिसाम्यात् ।
सर्वार्थसिद्धिः हेतुमाह-तद्विरोधेति । भावरूपस्यापि ह्यज्ञानस्य ज्ञानविरोधित्वं समानम् ; तस्य तद्बाध्यत्वाभ्युपगमात् । आदिशब्देन विषयविशेषनिरूप्यप्रतिसंबन्ध्यादिसापेक्ष वसंग्रहः । अपरोक्षधीविषयत्वं च मतान्तरेणाभावस्याप्यस्ति । षष्ठप्रमाणवेद्यत्वेऽपि विरोधस्समः । तत्रापि प्रमाणतयाऽभिमत उपलब्ध्यभावः केनचित् प्रमाणेन निर्धार्यः। तेन च ज्ञानप्रागभावोऽपि गृह्यमाण आश्रयप्रतियोगिस्वधीसद्भावे कथं सिध्येत् ? । मा भूततोऽपि ज्ञानाभावग्रह इति चेत्तन्न ; ज्ञानाभावस्य दुर्घहत्वं साधयताऽपि हि गृहीत एव ज्ञानाभावः। अन्यथा कथं
आनन्ददायिनी इति । न जानाम्यहमज्ञ इत्यादि प्रत्यक्षविषयस्या भावरूपत्वानुपपत्तेर्भावत्वं वाच्यमित्यर्थः । न चान्य इत्यत्रोत्तरमाह-भावरूपस्यापीति । नस्वस्तु विरोधस्तथाऽपि न ज्ञानमात्रेण ; अपि तु समानविषयकेणे'त्यत आह-आदिशब्देनेति । षष्ठेति । अधिकरणज्ञानं प्रतियोगिज्ञानं च स्वयमपि प्रतियोगिनाविति प्रतियोग्युपलम्भेनानुपलम्भस्याभावात् कथमनुपलब्ध्याऽप्यभावग्रह इति भावः। किंचानुपलब्धिरपि ज्ञातैवाभाव. धीहेतुरन्य था परोक्षत्वानुपपत्तेः । उपलम्भसंस्कारप्रमोषस्थलेऽनुपलब्धिभ्रमादभावभ्रमानुपपत्तेश्च । तथा च तत्प्रतियोगिज्ञानसत्त्वेऽनुपलम्भायोगात् अनुपलब्धिर्ज्ञानाभावस्य ग्राहिकेत्यनुपलब्धिवादिनोऽपि ज्ञानाभावः प्रत्यक्ष एष्टव्य इत्याह-तत्रापीति। अनुपलब्धिरज्ञातैवाभावधीहेतुः, परोक्षता चेन्द्रियाजन्यतयेति शङ्कते-मा भदिति । गृहीत एव ज्ञानाभाव इति । 'नन्वज्ञातयैव ज्ञानानुपलब्ध्या ज्ञानाभावो
1 त्वग्रहः-पा, निर्धार्यते । तेन-पा. 3 भावत्वा-क. 4 त्यत्राह-क. 5 थाप्यपरोक्ष-क. 6 प्रत्यक्षेणेष्टव्य-ग. 7 नन्वज्ञानानुपलब्ध्या -क.