________________
152
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः तुल्यैवाकारभेदात् परिहृतिरुभयोः क्लूप्तिरत्राधिका ते
सर्वार्थसिद्धिः प्रमाणज्ञानं पक्षीकृत्य स्वप्रागभावव्यतिरिक्तेत्यादि वक्ष्यसि, देवदत्तप्रमापक्षीकारेण तत्स्थप्रमाभावातिरेकिण इत्यादि च। ननु भावरूपाज्ञानग्रहणे किं तदितरज्ञानेन प्रतियोग्यादिनिरपेक्षत्वादिति चेन्न ; अज्ञानमिति गृह्यमाणस्य तदन्यतया तद्विरेषितया तदभावतया वा प्रतीतौ प्रतियोग्यादिभिर्नरपेक्ष्यायोगात् । नन्वज्ञानावच्छेदकतया सामान्यतः किंचिद्विषयं प्रतियोगिसाक्षिचैतन्येन ज्ञात्ताज्ञातसर्वग्राहिणा विषयी. क्रियते ; विशेषतम्तु गृह्णत् प्रमाणज्ञानं चानादिभावरूपाज्ञानबाधकमिति तत्राह -तुल्येति । अभावरूपेऽप्यज्ञाने तथैव प्रतियोगिधीय॑वस्थितेति न विरोध इत्यर्थः। तुल्यत्वे कथमितरप्रद्वेष इत्यत्राहक्लप्तिरिति । लाघवादभावपक्ष एव ग्राह्य इति भावः । स्यादेतत्-प्रति
आनन्ददायिनी 1गृह्यत इति चेन्न । तथासत्यघटं भूतलमितिवत् अहमज्ञ इत्याद्यनुभवस्याप्यनुपलब्धित्वापत्तेः न प्रत्यक्षेण भावरूपाज्ञानसिद्धिरिति ध्येयम् । अज्ञानमिति । अन्यथा 'ज्ञानभावेऽपि तन्निरपेक्षग्रहोऽस्त्विति भावः । ज्ञाताज्ञातेति । ज्ञातत्वेनाज्ञातत्वेन च सर्व साक्षिवेद्यमित्यभ्युपगादिति भावः । विशेषतश्च गृह्णत् साविज्ञानमिति शेषः । प्रमाणज्ञानम्-वृत्तिज्ञानम् इतरत् भावरूपाज्ञानम् ।
1 गृह्यतामिति चेत्तन्न-क. 2 ज्ञानाभावोऽपि-क.