________________
150
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः खलु दुरवगमस्संविदस्ते'न भावः स्यादज्ञानं यदीहाप्यपरिहतामिदं
सर्वार्थसिद्धिः च विद्यमानत्वात् । अथ विषयविशेषज्ञानावच्छिन्नस्य ज्ञानान्तरस्य प्रागभावः संग्रह इत्युच्येत ; तदपि न. विषयविशेषज्ञानसदसद्भावयोस्तज्ज्ञानाभावम्य दुर्घहत्वात् । षष्ठप्रमाणवेद्यश्चाभावः कथमपरोक्षधीविषयः स्यात् ? भावरूपाज्ञाने तु न तावद्भावाभावरूपत्वविरोधः; न चान्यत् किंचिदिह स्यादिति । अतः स्वेष्टस्य फलितत्वमाह--तेनेति । ईदृशं दुर्घहत्वं त्वदिष्टेऽपि स्यादिति प्रत्याह-इहापीति। तत्र तदुक्तमेव
आनन्ददायिनी प्रतियोगिनाऽपि विरोधादिति भावः । द्वितीयं शङ्कते-अथेति। विषयविशेषज्ञानेति । तज्ज्ञानसत्त्वे प्रतियोगिन एव सत्त्वेनाभावस्याभावात् तद सत्त्वे तद्विशिष्टप्रतियोगिज्ञानाभावेनाभावग्रहणासम्भवादित्यर्थः । ननु विषयविशेषज्ञानस्य कस्यचित् सत्त्वेऽपि कस्यचित् प्रागभावसम्भवात् तद्हः स्यादिति चेन्न । तथाऽपि प्रतियोगिसजातीयस्याप्रतियोगिनोऽपि सत्त्वं तज्ज्ञानप्रतिबन्धकमेव, येनाकारणाभावज्ञाने प्रतियोगी भासते तदाकारेण ज्ञायमानस्यान्यस्यापि प्रतिबन्धकत्वात् । अन्यथा घटे ज्ञायमान एव घटं न जानामीत्यनुभवापातादिति भावः । अभावमात्रस्यैवाप्रत्यक्षत्वान्नज्ञानाभावः प्रत्यक्षाविषय इत्याह-षष्ठेति। ननु तदभावव्याप्यत्वं विरोधोऽस्त्वित्यत्राह-न चा-य इति । ३ म्वविषयज्ञानेन सह तादृशस्यापि विरोधस्याभावादित्यर्थः । अत
1 न वेद्य स्या-पा. 2 सत्त्वेन विशिष्ट-क. 3 स्वविषयकाशा-क.