________________
ब्रह्मण औपाधिकजीवभावभङ्गः 132 ब्रह्मैवोपाधिभिन्नं भजति बहुविधां संसृतिं 188 सोऽप्यनादिस्तस्मान्नात्यन्तभिन्नो जड इति तु मते दुःखमद्वारकं स्यात् । 124 सौभर्यादौ व्यवस्था न कथमुपधिभिः स्वावतारेषु चैषा 135 सर्वज्ञस्स्वैक्यवेदी कथमनवघिमिर्जीवदुःखैन दुःख्येत् ।। ३१ ।। 138 बन्धो ब्रह्मण्यशेषे प्रसजति स यदोपाघिसंयोगमात्रात् सादेश्याच्चेदुपाघौ व्यभिचरति भवेद्वन्धमोक्षाव्यवस्था । 137 अच्छेद्ये छेदनादिर्विहत उपघिमिर्न स्वतोऽशस्तवास्मिन् 188 नोपार्जीिवतामप्यनुभवितुमलं ब्रह्मरूपोऽप्यचित्त्वात् ।। ३२ ।।
साविद्यब्रह्मविवर्तवादभङ्गः नापि ब्रह्मण्यविद्यास्थगितनिजतनौ विश्वमेतद्विवृत्तं 139 तस्मिन् सा स्वप्रकाशे कथमिव विलगेत्तत्प्रकाशैकबाध्या । न ह्येतस्मिन्नविद्याविलयकृदधिको वृत्तिवेद्यो विशेषो 140 बाधो वृत्तिस्वरूपाद्यदि भवति तदा ज्ञानबाध्यत्वमङ्गः ॥ ३३ ॥
तिरोधानाद्यनुपपत्तिः 141 छन्नत्वे स्वप्रकाशादनधिकवपुषो ब्रह्मणस्स्यादभावो भावानां छादनं हि स्फुरणविलयनं तस्य वोत्पत्तिरोधः ।। 142 मिथ्यादोषाशमोक्तौ कथमधिकरणं सत्यमित्येव वाच्यं नाधिष्ठानानवस्था भवतु तव यथा नास्त्यविद्यानवस्था ॥ ३४ ॥
अविद्यादर्शनानुपपत्ति: 145 दोषाभावेऽप्यविद्या स्फुरति यदि ततः किं न विश्व तथा स्यात् 148 सा चान्यां कल्पिको चेदभिलषति तदा साऽपि चेत्यव्यवस्था । नापेक्षा चेदनादेरकलुषघिषणागोचरत्वात्सती स्यात् 748 ब्रह्मैवास्यास्तु दोषो यदि न तु विरमेद्ब्रह्मणो नित्यभावात् ॥ ३५ ॥