SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 148 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक - -- - तत्त्वमुक्ताकलापः ___ ब्रह्मैवास्यास्तु दोषो यदि न तु विरमेह्मणो नित्यभावात् ॥ ३५ ॥ aanti व mmar सर्वार्थसिद्धिः गमात् , सामग्रीसन्तत्या धारावाहिकदृष्टेश्च । न चाध्यासकाल एवाविद्या भाति, पश्चात्त स्वरूपेणैवावतिष्ठत इति वाच्यम् , संविदधीनस्वसिद्धस्तस्या अप्रकाशमानक्षणावस्थानायोगात् । ईश्वरस्य भातीति चेन्न ; ईश्वरस्य बुद्धेरप्यदोषायत्तप्रकाशत्वे तद्विषयस्य सत्यत्वं सिध्येत् ; दोषायत्तत्वे तु तदोषप्रकाशो निर्दोषस्य सदोषस्य वेति विकल्पदाःस्थ्य प्राग्वत् । अथान्यनिरपेक्षं ब्रह्मवाविद्या प्रकाशप्रयोजको दोष इति शङ्कते--ब्रह्मेति । एवं सति स्वरूपतः प्रवाहतो वाऽनादिरविद्या नाच्छिद्यत इत्याह-न विति । तत्र निरपेक्षदोषानुवृत्तिं हेतुमाहब्रह्मण इति । तत्त्वधीप्रागभावविशिष्टस्य दोषत्वात् तदभावे कथम आनन्ददायिनी पि स्थैर्यमस्त्वित्यत आह-सामग्रीति । सामग्रीभेदस्य कार्यभेदकत्वादिति भावः । नन्वविद्या प्रकाशकत्वाभावेऽप्यनुवर्ततां, न तु तन्निवृत्त्या निवृत्तिरित्यत्राह-न चाध्यासकाल इति । संविदधीनेति । तथा च तसिद्धिर्न स्यादिति भावः । ननु स्वगोचरसविन्मात्रसत्त्वं विवक्षितं, न त्वस्मदादिसंवित्सत्त्वमित्याशङ्कतेईश्वरस्यति । अथेति । तथा च नानवस्थति भावः । तत्त्वधारपि यदि 1 चेन्न ; बुद्धे.-पा. 2 नन्वविद्याभावे-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy