________________
सरः ३] अविद्यादर्शनस्य दोषसापेक्षत्वकल्पेऽनवस्था, कल्पद्वयेऽप्यनिष्टप्रसञ्जन च 147
सर्वार्थसिद्धिः किमतः ? न हि मृदादयो घटादीनां हेतवोऽपि दोषा इति व्यवहियन्ते । न च स्वेष्टमुक्तिहेतोर्दोषत्वं ब्रूषे । भवन्तु वा हेतवो दोषाः । अविद्याप्रवाहवादिभिः पूर्वनिवृत्तावप्युत्तरस्य स्थैर्यमङ्गीकृतम्, चिरप्रकाशश्च । तत्र दोषनिवृत्तावपि सिध्यता प्रकाशेन 'प्राग्वाद्विषयस्य सत्यत्वं प्रसज्येत । सामग्रयवस्थपूर्वदोषचरमक्षणजनितावुत्तरप्रकाशौ चिरमनुवर्तेते इति चेन्न; विषयस्थैर्येऽपि वृत्तिप्रकाशानामाशुतरविनाशित्वाभ्युप
आनन्ददायिनी नीयान्तरस्य कारणतया सिध्यन् दोषोऽविद्येति भावः । किमत इति । अस्तु कारणं, स तु न दोषः किं तु दण्डादिरेव, न तु तदतिरिक्ताविद्याख्यं दोषान्तरमित्यर्थः । यदि कारणानामेव दोषत्वं तदा दोषमाह
-स्वेष्टेति । तथा सति मुक्तेमिथ्यात्वमापद्यत इति भावः । पूर्वनिवृत्तावपीति। उत्तराविद्यां सम्पाद्य पूर्वस्यनिवृत्तौ उत्तरमविद्योपादानकं न स्यात् । तत्सत्त्वे तु तयैवोपपत्तावविद्यान्तरं व्यर्थमित्येकाविद्यापक्ष एव स्यात्तथोत्तरप्रकाशश्च ब्रह्मप्रकाशवच्चिरप्रकाश एवेति दोषसहितप्रकाशत्वाभावात् सत्यत्वमापद्यतेति भावः । ननु पर्वदोष जनितस्वादुत्तरस्य दोषस्य तत्प्रकाशस्य च न दोषनिरपेक्षप्रकाशत्वेन सत्यतेति शङ्कते--सामग्रयवस्थेति । उत्तरं च प्रकाशश्च उत्तराविद्या प्रकाशश्चेत्यर्थः। विषयस्थैर्येऽपीति । विषयनिवृत्तावपि ज्ञानसत्त्वाशंसा गगनकुसुममकरन्दाशंसातुल्येत्यर्थः। ननु धारास्थले स्थैर्यावगमात् विषयापगमेऽ
1 प्राग्विषय-पा.
2 काशश्चिरप्रकाश-ग.
सत्त्वमापाद्यतेति-क.
4 जन्यत्वा-ग.
10*