SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 146 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः सा चान्यां कल्पिकां चेदभिलषति तदा साऽपि चेत्यव्यवस्था । नापेक्षा चेदनादेरकलुषधिषणागोचरत्वात् सती स्यात् सर्वार्थसिद्धिः वन्न त्यज्येतेति भावः । अनुमानं तु निरसिष्यते । उत्तरानुवादेनानवस्थामाह-सेति । अनवस्थापरिहारं शङ्कते - नापेक्षेति । स्वरूपानादेस्तावदविद्याया न कल्पकापेक्षा, प्रवाहानादेर्नानवस्था दोषः स्वकारणातिरिक्तानपेक्षणादिति भावः । पक्षद्वयेऽप्यनिष्टमाह - अकलुषेति । स्वरूपानादिरविद्या निर्दोषया संविदा भाति ; अन्यथा अनवस्थानात् । तथा च सत्यत्वं दुस्त्यजम् | अविद्या स्वप्रकाशे स्वकार्यप्रकाशे च स्वयमेव दोष इति मन्यसे, तर्हि सर्वमप्यनिर्वचनीयं दोषान्तरमन' पेक्ष्यावभासेत, अविशेषात् । अन्यदनिर्वचनीयं कादाचित्कत्वात् कारणमपेक्षत इति चेत्, आनन्ददायिनी मिति वक्ष्यमाणानुमानात् सिद्धिरित्यत्राह - अनुमानं त्विति । उत्तरपद्य इति शेषः । स्वकारणातिरिक्तति । मूलक्षयकृत्त्वाभावादित्यर्थः । अन्यथेति । तस्य दोषाङ्गीकारे तस्यापि तथेत्यनवस्थेत्यर्थः । तथा चेति । निर्दोषसंविद एव विषयसत्यत्वापादकत्व | दिति भावः । अन्यदिति । यद्यप्यन्यस्य दोषत्वं वक्तुं शक्यते, तथाऽपि स्वप्रका - शेन तस्य दोषत्वं तदध्यासपूर्व भावित्वाभावात् । तथा च अनिर्वच 3 1 पेक्ष्य भासे - पा. 4 तथा च न निर्वच - ग. 2 दित्यर्थः - ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy