________________
सरः३]मायाशब्दस्यत्मिथ्याद्यपर्यायता,अविद्यासाक्षिस्वस्यदोषनिरपेक्षत्वकल्पेऽनुपपत्तिश्च145
तत्त्वमुक्ताकलापः दोषाभावेऽप्यविद्या स्फुरति यदि ततः किं न विश्वं तथा स्यात्
सर्वार्थसिद्धिः सदासीत्तदानीं" "न सत्तन्नासदुच्यते' इत्याद्यपि सदसच्छब्दाभिप्रेतव्यष्टिभेदप्रलयपरतया न तद्वैलक्षण्याय योज्यभिति ॥ ३४ ॥
तिरोधानाद्यनुपपत्तिः.
अथाविद्यास्वरूपसिद्धिरूपब्रह्मणस्तत्साक्षित्वं दोषनिरपेक्षं तत्सापेक्षं वेति विकल्पे पूर्वानुवादेनानिष्टमाह-दोषेति । मिथ्याभूतस्य कस्यचिदोषनिरपेक्षप्रकाशत्वे वियदादिप्रपञ्चस्यापि तथात्वं लाघवात् स्वीकार्यमेव । न चासौ प्रपञ्चप्रतिभासहेतुर्दृष्टः, येन लोकसिद्धदोष
आनन्ददायिनी पादनपरत्वाभावात् , अन्यथा सर्वदा सदसद्विलक्षणरूपप्रपञ्चस्य सत्त्वेन तदानामिति प्रलयकालमात्रोपादानायोगात् ; तदाह-सदसच्छब्दाभिप्रेतव्यष्टिभेदेति । व्यष्टीनामेव सदसच्छब्दवाच्यत्वमिति भावः ॥ ३४ ॥
तिरोधानानुपपत्तिः
अविद्याध्यास एव न संभवति कुतस्तरां तदधीनाध्यास इति पूर्वसंगत्याऽऽह-अथेति । मिथ्याभूतस्येति । तदर्थमविद्या व्यथेति भावः । ननु रूप्याध्यासे चाकचक्यादेरिवान्वयव्यतिरेक सहकृतप्रत्यक्षसिद्धत्वादविद्या स्वीकार्येत्यत्राह-न चेति । ननु विमतं प्रमाणज्ञान
1 इति च स.-पा. SARVARTHA VOL. IV.
10