SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 144 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलाप नायक सर्वार्थसिद्धिः न च शुक्ति रूप्यादौ वचिदपि मायाशब्दो दृष्टः । नापि मिथ्याशब्दपर्यायतया मायाशब्दं लोकवेदनिघण्टुकाराः पठन्ति । "अनतेन हि प्रत्यूढाः" इत्यत्रानतशब्दो न जगप्रकृतिविषयः, किंतु ऋतेतरदुष्कर्मपरः ; ऋतं चात्र फलाभिसन्धिरहितं कर्म स्यात् । कारणविषयत्वेऽपि ब्रह्मविषयासच्छब्दवदान्यपर्यमवसेयम् । एतेन " नासदासीन्नो आनन्ददायिनी इति। तथा च न नित्यत्वं श्रुतमिति भावः । न च शुक्तिरूप्यादाविति। तथा च क्वचित् प्रयोगोऽस्ति चेदुक्तरीत्याऽन्यथा नेय इति भाव । ननु ' अनतेन हि प्रत्यूढाः' इति जगत्कारणप्रकृतेरनृतत्वाभिधानान्मिथ्यात्वं सिध्यतीत्यत्राह-अनृतेन हीति। प्रत्यूढिस्तिरोधानम् । नन्वनृतशब्दस्य दुष्कर्मपरत्वं कथमित्यत्राह ---ऋतं चति । 'ऋत पिबन्तौ सुकृतस्य लोके' इत्यादौ सत्कर्मणि ऋत.ब्ददर्शनातदन्यदष्कर्मपर इत्यर्थः । कारणविषयत्वेऽपीति। प्रकृतिपरत्वेऽप्यनित्यभोगप्रदत्वादिरूपान्यपर्यमित्यर्थः। ननु ' नासदासीन्ना सदासीतदानीं नासीदजो नो व्योमापरोधम्, इति नासदासीयसूक्तोपक्रमस्थेन वाक्येन 'न सत्तन्नासदुच्यते' इति स्मृत्या च जगत्कारणप्रकृतेरनिर्वचनीयत्वमुच्यते । 'नासदासीन्नो सदासीत् ' इति प्रलये विद्यमानस्य प्रधानद्रव्यस्य सदसद्भिन्नत्वप्रतिपादनात् तदेवानिर्वचनीयत्वं मिथ्यात्वमिति चेत् तत्राह-एतेनेति। अय भावः-' यदन्यद्वायोरन्तरिक्षाच तत्सत् वायुरन्तरिक्ष चात्येति' इति सदसच्छब्दयोः प्रत्यक्षपरोक्षभूतवाचकत्वदर्शनात् 'न सत्तन्नासदुच्यते' इति स्मृतेश्च भूतपञ्चकविषयत्वाच्च प्रलयकाले पृथिव्यादिभूतपञ्चकाभावपरतयाऽनिर्वचनीयप्रति 1 रूप्याहिषु क-पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy