SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ सर. ३] अध्यासाधिष्ठानस्य सत्यतासाथ केनैव हेतुनापरानभिमतजगत्सत्वतासिद्धिकथनम् 143 सर्वार्थसिद्धिः । च मिथ्यात्वं दृष्टम् । ततश्च माध्यमिकं प्रति निरधिष्ठान श्रमानुपपत्ति वदन् श्रममूलस्य दोषस्य कथं मिथ्यात्वं ब्रवीषि ? यद्यधिष्ठानं मिथ्या तदा तदध्यासस्याधिष्ठानान्तरं वाच्यम् । एवं चानवस्था स्यादिति चेत्, दोषमिथ्यात्वेऽपि तदध्यासार्थं दोषान्तरापेक्षयाऽनवस्था स्यादेव ; यदि दोषस्य स्वरूपतः प्रवाहतो वाऽनादित्वान्नानवस्थादोष इति मन्यसे, एवमधिष्ठानमिथ्यात्वेऽप्यधिष्ठानस्य दोषवदुभयथाऽनादित्वान दोषः स्यात् । अथ स्यात् न वयं निरधिष्ठानभ्रमभीत्याऽधिष्ठानम्य सत्यत्वं ब्रूम.; अपि तु 1 ." सत्यं ज्ञानमनन्त ब्रह्म ' इत्यादिश्रुतिसिद्धमङ्गीकुर्म इति चेत्, तर्हि दोषतयाऽभिमताया जगत्प्रकृतेरपि -- गोरनाद्यन्तवती सा जनित्री भूतभावनी । अव्यक्तं कारणं यत्तन्नित्य सदसदात्मकम् ॥ इत्यादिभिरनश्वरत्ववचनात् सर्वकालानुवृत्त्या सत्यत्वमङ्गीकार्यम् । “ भूयश्चान्ते विश्वमायानिवृत्तिः "इति तद्विनाशः श्रुत इति चेन्न ; पुरुषस्य भायासबन्धनिवृत्तौ तत्र तात्पर्यात् । मायाशब्द एव मिथ्यात्व बोधयतीति चेन्न, आश्वर्यसृष्टिहेतुतया तदुपपत्तेः ; अन्यथा "देवमायेव निर्मिता" "तेन मायासयखं तत् " इत्यादिविरोधात् । आनन्ददायिनी उभयथा— स्वरूपतः प्रवाहतश्चेत्यर्थः । अथेति । तथा च कस्यापि सत्यत्वमनपेक्षितमिति भावः । सर्वकालानुवृस्येति । मिथ्याभूतम्य ज्ञाननिवर्त्यत्वानुरोधेन सर्वकालानुवृत्त्ययोगात्तदनुवृत्तावपि तस्य मिथ्यात्वे तस्य पारिभाषिकत्वप्रसङ्गात् अनिर्मोक्षापत्तेश्चेति भावः । भूयश्चान्त 'रनवयवत्व - पा 4 वपि मिथ्यात्वे 1 इति श्रुतिसिद्ध-पा -ग. 5 भाषिकसर्वप्रसङ्गा - ग. 2 भाविनी - पा. तस्य पारि - 59 3
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy