________________
नायक
142
मव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुन्नाकलापे
तत्त्वमुक्ताकलापः मिथ्यादोषामोक्तौ कथमधिकरण सत्यमित्येव वाच्यं
नाधिष्ठानानवस्था भवतु तब यथा नास्त्य. विद्यानवस्था ।। ३४॥
सर्वार्थसिद्धिः त्तिरोध इत्येष्टव्यम् । ततश्व सत्यामविद्यायां कथ तहाधिका वृत्तिरुत्पद्यते ? अन्यतम्तन्निवृत्तौ किं पुनरेवा वृत्तिस्साधयेत् । स्वयमेवाविद्या निवोत्पद्यत इति चेन्न ; परम्पराश्रयापत्तेः, रवोत्पत्त्या प्रतिबन्धकनिवृत्तिः तया च सेति । एवं तिरोधानं दूषितम् । तदधीनं विक्षेपमपि विक्षिपति-मिथ्येति। सर्वासु भ्रान्तिष्वधिष्ठानदोषयोस्सत्यत्वमारोप्यस्य
आनन्ददायिनी त्पत्तिप्रतिबन्धासम्भवादिति भावः । ततश्चेति । उत्पत्तिप्रतिबन्धकतिरोधायकसत्त्वे प्रतिबन्धकाभावरूपकारणाभावाद्वतिरेव नादियादि. त्यर्थः । ननु रजतमिति घियि सत्यामेव नेदं रजतमिति धीरुत्पद्यते । ततश्च नत्र विशेषददर्शनादिविशिष्टैव प्रतिबन्धिकति विशेषदर्शने सति प्रतिबन्धका भावातिरोधायकस्यापि प्रत्यक्षशब्दादिविशेषवृत्तिसामग्रयसमवहितस्यैव प्रतिबन्धकत्वमिति कथ वृत्त्यनुत्पत्तिरिति चेत्तत्राह-एवं तिरोधानमिति । अय भावः-नित्य हि ज्ञानं व्यवहारहेतुश्चत्कल्पितं तिरोधानमकिंचित्करम् । वृत्तिज्ञानस्य व्यवहारहेतुत्वे च वृत्तिसामग्रीभूतप्रत्यक्षादेस्सत्त्वे वृत्तिरुत्पद्यत एवेत्यस्मिन् पक्षेऽपि तिरोधानमकिंचित्करमेवेति । विक्षिपति--निरम्यतीत्यर्थः ।
1 भाववत्ति रो-क.