________________
सरः ३7
तत्र ब्रह्मणोऽविद्यया तिरोधानमित्यशस्य दूषणारम्भणम्
141
तत्त्वमुक्ताकलापः छन्नत्वे स्वप्रकाशादनधिकवपुषो ब्रह्मणः स्याद
भावो
भावानां छादनं हि स्फुरणविलयनं तस्य वोत्पत्तिरोधः।
सर्वार्थसिद्धिः तिरोधिमपि दूषयति-छन्नत्व इति । घटादीनां स्वस्वरूपातिरिक्तप्रकाशवत्त्वात्तन्निवर्तकैम्तिरोधान युक्तम् , ब्रह्मणस्तु न तथेत्याशयः । अभावापत्तिं तिरोधानविकल्पेन व्यनक्ति-भावानामिति । स्फुरणविलयन--सिद्धस्य प्रकाशस्य नाशः । तस्यस्फुरणस्येत्यर्थः, असिद्धम्येत्यर्थापन्नम् । ननु वृत्त्यधीनप्रकाशान्तरापेक्षया तिरोधानं सिध्येत् , तन्न ; तस्यापि झनुत्पन्नम्य जाश्यत्वायोगादुत्प
आनन्ददायिनी दूषणप्रसङ्ग एव सङ्गतिरिति सूचयति -- तिरोधिमपीति । व्यवहारसामग्रयां सत्या व्यवहाराभावो नास्ति न प्रकाशन इति व्यवहारयोग्यत्वमित्यादेरतिरोहितेऽपि सम्भवात्तिरोधाननिवृत्तावपि अतिप्रसक्तेरप्रकाशमानेऽपि दुःखादौ तिरोधानाद्यभावात्तिरोधानाभावे च विप्रलम्भादिव्यवहारवैपरीत्या दतिव्याप्तयव्याप्तयोश्च प्रसङ्गात्तिरो - धानशब्दार्थ सम्भवे लोकसिद्धतिरोधानशब्दार्थाभिप्रायेणाह--तिरोधानविकल्पेनेति। विलयनपरत्वभ्रान्ति वारयति -स्फुरणस्येत्यर्थ इति। अर्थापनामिति। अर्थादापन्नमित्यर्थः । उत्पन्नम्यो
1 मुखादौ-क
2 लम्भकादि-क. दतिव्याप्तयाश्च-क. 4 र्थत्वासभवे-क.