________________
140
सव्याख्यमवयनिदिवहिततत्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः बाधो वृत्तिस्वरूपाद्यदि भवति तदा ज्ञानबाध्यत्वमङ्गः ॥३३॥
- सर्वार्थसिद्धिः - बाध इति । वृत्तिस्वरूपात् प्रदीपवहिमुद्रादिवत् किञ्चित्प्रकाशननिरपेक्षादिति यावत् । दूषयति-तदेति। अज्ञानस्य ज्ञाननिवर्त्यत्वं न स्यात् ; तत एव मिथ्यात्वलक्षणातिक्रम इति भावः ॥ ३३ ॥
इति साविद्यब्रह्मविवर्तवादभङ्गा.
आनन्ददायिनी तद्विषयम्यापि विशेषस्याध्यासहेतुत्वेनाविद्यास्थित्या भाव्यमिति शुक्त्यज्ञानवदेकदशेन निवृत्तिः स्यात् , न तु कास्न्येन । ननु मूलाज्ञानेन विशेषोऽप्यध्यस्त एव स्वगोचरज्ञानेन तद्बाधताम् , तरिमन् बाधिते उपादाननिवृत्त्या विशेषो निवर्तत इति सर्वनिवृत्तिलक्षणो मोक्षः संग च्छत इति चेत्, न । तथा सति तस्य मिथ्यात्वं न स्यात् ; ज्ञाननिवत्यत्वाभावात् । न च यथाकथंचित् ज्ञानाधीननिवृतिमत्त्व विवक्षितमिति वाच्यम् । तथा सति पुरुषोत्तमादिदर्शनजन्यनिवृत्तिमत्पापा. देरिव सत्यत्वे बाधकाभावात् । न च ज्ञानानिवर्त्यत्वेऽपि मिथ्योपादानकत्वात् मिथ्यात्वमिति वाच्यम् । असत्यात रात्योत्पत्तिं वदतस्तव तदयोगात्। उपादानवनिमित्तत्ववैषम्यस्याकिंचित्करत्वादित्याहवृत्तिस्वरूपादिति । तथा सति निर्विशेषज्ञानार्थ अखण्डार्थ कल्पनादिवैयर्थ्यमिति भावः । अज्ञानस्येति । निवर्तकस्य किंचित्प्रकाशरूपत्वाभावे ज्ञानत्वाभावादिति भावः । तर्हि को दोष इत्यत्राह-तत एवेति ॥३३॥
साविद्यब्रह्मविवर्तवादभङ्गः.
___1 काशनिर-पा. 2 बाध्यास-क. स्यात् , अशान ?-क. 4र्थादिकल्पनावैयदिति-क.