________________
सर ३] ब्रह्मैवानाधविद्यातिरोहितमनन्तभेदप्रपत्रात्मना विवर्तत इति मतस्य निरासः 139
तत्त्वमुक्ताकलापः तस्मिन् ला स्वप्रकाशे कथमिव विलगत्तत्प्रकाशैकबाध्या।
न ह्येतस्मिन्नविद्याविलयकवधिको वृत्तिवेद्योविशेषो
सर्वार्थसिद्धिः कमन्निघावन्धकारस्येवानादिस्वप्रकाशब्रह्मसंनिधौ तदज्ञानस्य स्वरूपलब्धिरेव न स्यादित्यभिप्रायेणाह -तस्मिन्निति । प्रदीपकज्जलन्यायशङ्कापनुत्त्यै विरोधं व्यनक्ति --तत्प्रकाशैकबाध्यति । ननु ब्रह्मस्वरूपप्रकाशो नाज्ञान बाधते, किंतु साक्षित्वेनावम्थाय साधयत्येव । तत्त्वावेदकवाक्यजन्य तु वृत्तिज्ञानं तद्बाधकमित्यत्र वृत्तेर्वाधकत्व विषयम्थविशेषप्रकाशनशक्त्या स्वरूपशक्त्या वेति विकल्प सङ्कल्प्य प्रथम प्रतिक्षिपति-न हीति । अधिका--- स्वरूपादन्यः । विशेषस्याविद्याविलयहेतुत्व स्वधीद्वारा । यदि तु वृत्तिः कल्पितविशेषविषयतया ब्रह्माज्ञानं बाधेत तर्हि तत्त्वधीबाध्यत्वं तस्य न स्यात् । द्वितीयमनुवदति
आनन्ददायिनी सुतस्योद्वाहविचारतुल्य इत्यर्थः । प्रदीपेति। कज्जलस्य प्रदीपजन्यत्वमेव न तु निवर्त्यत्वम् । तथाऽत्राङ्गीकारेऽनिर्मोक्षप्रसङ्ग इति भावः । स्वरूपशक्तया वृत्तिवन विशेषस्य स्वरूपातिरिक्तस्य सत्यत्वे द्वैतप्रसड्रेन कल्पितं तद्वक्तव्यमिति तत्राह-- यदि त्विति । ननु माऽस्तु तत्त्वधीबाध्यत्वं, तावताऽविद्यानिवृत्तौ विशेषाभावादिति चेत्, न। तथात्वे
1 कल्पनं तद्वक्तु मिति-ग.