________________
सरः ३] उपाध्यवच्छन्न ब्रह्म जीव इत्यस्य पक्षस्य विकल्पषट्कोद्भावनपूर्वक निरासः 137
तत्त्वमुक्ताकलापः अच्छेये च्छेदनादिविहत उपधिभिर्न स्वतोऽशस्तवास्मिन
सर्वार्थसिद्धिः गभेदैरिति जीवविषयत्वे निर्वाहः । परमात्मविषयत्वेऽपि ब्रूमः। अत्र तत्तत्संसर्गप्रयुक्तविकारादिराहित्ये तात्पर्यम् । एतच्च वृद्धिहासादिसूत्र. भाष्ये व्यक्तमनुसंधेयमिति । __ एक एव हि भूतात्मा भूतेभते व्यवस्थित ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।। इत्यपि गतार्थम् ।
घटध्वंसे घटाकाशो न भिन्नो नभसो यथा ।।
इनि मुक्तविषयस्मृतिरप्यौणाधिकविशेषनिवृत्तिपरा । न ह्यत्र घटाकाशभ्य नअस्तत्त्वतादात्म्यं निर्दिश्यते ; तम्य घटमयोगदशायामप्यवस्थानात् । नापि बहिर्भूतमहाकाशादितादात्म्यम् ; तस्य घटध्वंसदशायामप्यसंभवात् । तत्समानतापत्तिस्त्वैक्यविरोधिन्येव । तृतीय चतुर्थी दूषयति-अच्छेद्य इति । पञ्चमेऽपसिद्धान्तमाह-न स्वत
आनन्ददायिनी हासभाक्षु पृथक्पृथक् संयुज्यमानमप्याकाशं वृद्धिहासादिदोषैर्न स्पृश्यते तथाऽय परमात्मेत्यादिना ' वृद्धिहातभाक्त्वमन्तर्भावादुभयसानञ्जस्यादवं दर्शनाच्च' इत्यत्र भाष्येण भाष्यकारी निरूह इत्याह-एतच्चेति । भूतात्मेत्यत्र भूतानां प्राणिनाभन्तरात्मेतश्विरविषयतया गतार्थमित्याह-एक एव हीत्यादि । तत्र हेतुमाह- न हीति। घटध्वं. स इति विशेषोक्ति वैयर्थ्यादित्यर्थः। असंभवादिति । तत्प्रदेशस्य
1 निदर्श्यते-पा. 2 वैयर्थ्यमित्यर्थः-ग.