________________
128
सध्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलाप
[नायक
तत्त्वमुक्ताकलापः बन्धो ब्रह्मण्यशेषे मसजति स यदोपाधिसंयोगমামা
नादेश्यान्चेदुपाधौ व्यभिचरति भवेद्वन्धमोक्षाव्यवस्था।
सर्वार्थसिद्धिः घटाद्यवच्छिन्नपृथिव्यंशवदुपाधिभावेन परिच्छन्न एव वा कश्चिद ब्रह्मांशः' इति विकल्पं विभाव्य प्रथमे दोषमाह -बन्ध इति । अत्र नित्यमुक्त ईश्वरांशो निष्क्रष्टुं न शक्यः, बद्धमुक्तविभागश्च न स्यादिति भावः । द्वितीयमनुवक्ति-सादेश्याच्चदिति । तत्रोपाधिसञ्चारदशायां घटाकाशनीत्यैव नियतजीवांशासंभवात् बद्धमुक्तप्रदेशनियमाभावमाहउपाधाविति। कर्मनिरपेक्षो बन्धः तत्कालतमुचितविद्यानिरपेक्षो मोक्षश्च स्यादित्याकूतम् । एव सति
आकाशमेक हि यथा घटादिषु पृथग्भवेत् ।।
तथाऽऽत्मैकोऽप्यनेकस्थो जलाघारेष्विवांशुमान् ।। इति स्मृतिः कथमिति चेत् ; इत्यम्-आकाशोऽपि पृथिव्यादिवत् सभाग., पञ्चीकरणप्रक्रियया तस्मिद्धेः । तद्भागानां त्वेकरूपाणागपि यथा घटादिसयोग भेदैरेव मिथो वैषम्यम्, एवमात्मनां देवादिपिण्डसंयो
आनन्ददायिनी नोपाधिरित्यनेन सूचितमाह-घटाधवच्छिन्न इति । किं जीवविषयमुत ब्रह्मविषयमिति विकल्प्य उभयथाऽपि तव न प्रमाणमित्याह-आकाशोऽपीति । एतादृशवचनानि यथा घटकरकादिषु वृद्धि
1 स्यातामित्या--पा. 2 भेदादेव-पा.