SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सरः ३] अनूदितभास्करपक्षे सर्वशस्येश्वरस्योपाध्यभेदशानवतोऽद्वारकदुःखापादनम् 135 तत्त्वमुक्ताकलापः सर्वज्ञः स्वैक्यवेदी कथमनवधिभिर्जीवदुःखैर्न दुःख्येत् ॥३१॥ सर्वार्थसिद्धिः अवतारेषु त्रैकालिकावतारान्तरवृत्तान्तव्यवहारास्तत्रतत्र दृश्यन्ते । तथाऽपि कर्मोपरोधादप्रतिसन्धानमित्यत्राह-सर्वज्ञ इति। न हि नित्यसर्वज्ञतयाऽभ्युपगत ईश्वरांशः स्वात्मगतमुपाघि तत्परिच्छन्नं स्वांश च स्वेनाभिन्नं न वेत्ति, ततश्चाहमेवोपाधिपरवशतयाऽनन्तदुःखमनुभवामीति न कथं दुःख्येत् ।। ३१॥ ____ अपि चात्रोपाध्यवच्छिन्नं ब्रह्म जीव इति परोक्ते किमुपाधिसंयोगमात्रविशेषितं ब्रह्मस्वरूपमेव जीवः ? उत घटाकाशवदवच्छेदेन विभक्तो भागः ? अथ घटोदकवद्विच्छेदेन ? यद्वा विदारितापदारुनयात् किञ्चिद्विदलनेन ? यद्वा उपाधिसयोगव्यजितविभागः कश्चित्सहजोऽगः ? आनन्ददायिनी बाहुल्यकल्पनं योगिनो व्यर्थम् ; देवदत्तयज्ञदत्तादिन्यायेनौपाधिकभेदे लोकशरीराणामिव स्वभोगसाधनत्वायोगादिति भावः। अवतारवृत्तान्ताः--प्रतिसंधीयमाना इति शेषः । न हि नित्यसर्वज्ञतयेति । अन्यथा सर्वज्ञत्वाभावप्रसङ्गादिति भावः ॥ ३१॥ पूर्वसङ्गतिरेव सङ्गतिरित्यभिप्रायेणाह--अपि चेति । उपाधिसंयोगमात्रादित्यनेन सूचितं विकल्पमाह-किमुपाधिसंयोगेति । सादेश्याच्चेदित्यनेन सूचितमाह-उत घटावकाशावदिति। छेदनादिविहित इत्यनेन सूचितमाह--अथ घटोदकवदिति । यद्वा विदारिताग्रेति । न स्वतोऽश इत्यनेन सूचितमाह-यद्वोपाधिसंयोगव्याञ्जितेति । ___1 स्वात्मकमुपाधि-पा. २ सयोगविशेषित-पा. 3 लोके शरीराणा जीवस्य भोग-ग. सायना
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy