SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 134 सब्याख्यसर्वार्थसिद्धिसहिततवमुक्ताकलापे नायक ___ तत्त्वमुक्ताकलापः तोमर्यादौ व्यवस्था न कथमुपधिभिः स्वावतारेषु चैषा सर्वार्थसिद्धिः रकम् , न च त्वन्मते विकारवदुपाध्यशद्वारकमित्यर्थः । औपाधिक्यां व्यवस्थितावतिप्रसङ्गमाह-सौभर्यादाविति । आस्ति हि योगिनां युगपदनेकदेहभृतां तत्तदेहोपाधिकृतभोगप्रतिसन्धानम् । स्मयते हि आत्मनो वै शरीराणि बहूनि मनुजेश्वर । प्राप्य योगबलं कुर्यात् , इत्यादि । आनन्ददायिनी द्वैषन्य सत्यत्वमिथ्यात्वाभ्यामस्तु ; पूर्वस्मात् कथं वैषम्यमद्वारकत्वाविशेषादिति चेत्, अत्राहुः-पूर्व त्राभेदोऽपि स्वाभाविक इति स्वाभाविकाभेदात् प्रसक्तो दोषः स्वाभाविकभेदादप्रसक्तः किं न स्यादिति वचनमात्र बक्तु शक्यमत्र तदपि न संभवतीति वैषम्यमिति । ननु विकारवदशपरिणतान्तःकरणवृत्तित्वेन सद्वारकत्वादोषाणां सिद्धान्ततुल्यतेत्यत्राह-न चेति औपाधिकजीवगतत्वाङ्गीकारात्, अन्यथौपाधिकजीवकल्पनावयादिति भावः। वस्तुतस्तु-उपाघेरप्यभेदस्य स्वाभाविकत्वात् भेदम्य त्वौपाधिकत्वादुपाधिगतत्वेऽपि दोषस्तदवस्थ इति न सिद्धान्तसाम्यमिति भावः । ननुपाधिवशा देवाननुसन्धान सेत्स्यतत्यित आह औपाधिक्यामिति। ननु योगिनां देहान्तरावच्छिन्नसुखानुसन्धाने किं मानमित्यत्राह-मर्यते होति । तत्र प्रतिसन्धानाभावे त्वन्मते शरीर व मेदोऽपि स्वभाव इति-ग. देवानुस-ग ___ 1 धिकभोग-पा. 4 ननु देहिनां-क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy