________________
सर. ३] अनाघनत्यन्तमिन्नजडोपाधिप्रयुक्तब्रह्मपरिणामप्रपञ्चवादिभास्करपक्षानुवादः 133
तत्त्वमुक्ताकलापः सोऽप्यनादिस्तस्मानात्यन्तभिन्नो जड इति तु मते दुःखमद्वारकं स्यात्।
सर्वार्थसिद्धिः भेदेन गुणदोषसकरपरिजिहीर्षया उपाधिभिन्नत्वे स्वीकृतेऽपि प्रलयदशायामुपाघिविलयेन भेदाभावे मुक्तिप्रसङ्गः। ततश्च प्राग्वदकृताभ्यागमादिः स्यादित्यत्राह-सोऽपीति । उपाधिभेद इत्यर्थः। प्रलयेऽपि प्रतिजीवमुपाधयस्सूक्ष्मरूपेण तिष्ठन्ति ; ततस्तदवच्छिन्नजीवभेदस्थितिरुपपद्यत इति भावः । अनाद्युपा धिभेदस्वीकारे ब्रह्मव्यतिरिक्ताङ्गीकारः स्यादित्यत्राह-तस्मादिति। बहुधा भिन्नोऽपि ह्युपाधिबॅझाभिन्नः ; तस्मानाब्रह्मतत्त्वाङ्गीकृतिरिति भावः । ब्रह्मतादात्म्याविशेषेऽपि उपाधेस्तद्वतो वैषम्यमाह-जड इति । पूर्वापरदष्येभ्यो विशेष व्यनक्तिइति तु मत इति । दुःखमद्वारकं स्यात्-न ह्यस्मन्मतवद्विशेषणद्वा
आनन्ददायिनी उपाधिभेद इत्यर्थ इति । प्रलयेऽनुपपत्तिमाशङ्कयाह-सूक्ष्मरूपेणेति । अनादीति। 'एकमेवाद्वितीय' इत्यादिना ब्रह्मान्यस्य निषेधादिति भावः। बहुधा भिन्नोऽपीति । ननु तर्हि भेदाभेदम्वीकारे यादवपक्षात् को भेद इत्यत्राह --उपाधेस्तद्वत इति । अनाद्युपाघिविभागाङ्गीकारादौपाधिकत्वेन भेद इति भावः । पूर्वापरति । ननु यद्यपि परस्माद्दष्या
1 विस्वीकारे-पा. 2 परस्सा. दृष्टया वैषम्य मिथ्यात्वातत्त्वाभ्यामस्तु-ग.