SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 132 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः ब्रह्मैवोपाधिभिन्नं भजति बहुविधां संसृति सर्वार्थसिद्धिः कप्रवृत्त ईश्वरः स्यात् । अवतारवृत्तान्ताः शैलषन्यायेन निरूढा इति । अस्मन्मते तु विशेषणगता दोषा न विशेष्यं स्पृशन्ति, ऐक्यभेदाभेदानङ्गीकारात् , अकर्मवश्ये संसर्गजदोषाणामसंभवाच्चेति ॥ ३० ॥ इति ब्रह्मणः स्वलीलार्थजीवादिपरिणामवादभङ्गा. - उक्तपक्षासन्नं भास्करपक्षमुपालभते--ब्रह्मैवेति। एवकारो विरोध व्यनक्ति। महाकाशघटाकाशादिनयादीश्वरान्मिथश्च जीवानां आनन्ददायिनी इति भावः । अभिनयमात्रत्वान्नावतारवृत्तान्तोदाहरणं युक्तमित्याहअवतारेति । ननु सिद्धान्तेऽपि सर्वाधारवादीश्वरस्य स दोषम्तदवस्थ इत्यत्राह -अस्मन्मते विति । जीवगतानां दोषाणां साक्षात्सम्बन्धाभावादिति भावः । तत्र ' हेतुः ऐक्येति । ननु शरीरसम्बन्धस्य जीववदीश्वरेऽपि तुल्यत्वात्तत्प्रयुक्ता दोषाः किमिति न स्युरित्यत्राहअकर्मवश्य इति । मूले सर्वशास्त्रोपरोधः--'न कर्मणा वर्धते नो कनीयान् । 'निर्विकार निरञ्जनं निरवद्यम्' इत्यादिश्रुतिविरोध इत्यर्थः ।। ॥३०॥ ब्रह्मणः स्वलीलार्थजीवादिपरिणामवादभङ्गः. प्रसङ्गसङ्गतिमाह-उक्तेति । ब्रह्मण एव विभागाङ्गीकारादासन्नत्वं बोध्यम् । पुंस्त्वं संसृतिपरत्वे न स्यादित्यत आह~ 1 हेतुमाह-ऐक्येति-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy