________________
130
सम्याख्यसर्वार्थसिद्धिसहिततवमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः अव्यक्तं त्वन्मतेऽपि ह्यनवयवमथाप्येतदंशा विकाराः
ने चान्योन्यं विचित्राः पुनरपि विलयं तत्र तत्त्वेन यान्ति ।
सर्वार्थसिद्धिः अन्ये तु भेदाभेदवादिन आहुः-निष्कलचिदानन्दजलनिधिरपारस्वानन्दानुभवप्रीतिजनितनानाविकार एव स्वल्पमंशं जडरूपं संकल्प्य तमेवाजडेन चिदंशान्तरेण संयोज्यानन्तविचित्रसुखदुःखानुभवभागिनं कृत्वा तद्दर्शनेन प्रीयत इति । यथोक्तम्--" त्वं चिन्महोदधिरगुं तव बिन्दुमेकं कृत्वा जडं तमजडेन नियोज्य" इत्यादि । दृश्यन्ते च जगति कतिचिदात्मपीडावहां क्रीडा सादरमनुतिष्ठन्तः । अन्यथा कथमवतारेषु तादृशा विहाराः, कथं च स्वेच्छया कर्मफलान्यनुभवेदिति । एतदनुभाषते-अव्यक्तमिति । तदिदसमञ्जसवृत्तान्तादप्यधिकं जुगुप्स
आनन्ददायिनी तदेकदेशिनस्त्तु-ईश्वर एव ब्रह्म, न तु ततोऽतिरिक्तं सन्मात्रम् | ॐ तत्तु स्वसङ्कल्पादेव चिदचिदीश्वररूपं विभाग लीलार्थ करोतीति वदन्ति ; तन्मतमाह-अन्य विति । यथोक्तमिति । शिलालिग्रन्थ इत्यर्थः । तेन नानाविकारजनितानि सुखानि दुःखान्यालम्ब्य सर्वजगदेकतया प्रतीत इति भावान्तरम्। नन्वीश्वरस्य सर्वज्ञस्य कथं म्वानर्थे प्रवृत्तिरित्यत्राह-दृश्यन्ते चेति । असमंजसः सगरस्य ज्येष्ठपुत्रो
1 मेदिन-पा. 2 तदतिरिक्वं-ग. 3 स स्व-ग. 4 इति विभागान्तर-क.