________________
129
सरः ३] जीवव्यष्टिवदीश्वरव्यष्टिकल्पनपक्षस्य निरास.
mmmmmmmmmmmmmm
सर्वार्थसिद्धिः श्रुतिश्चाविरुद्धविषयतया नीयेतेति । यदपि कल्पयन्ति-जीवव्यष्टिवदी. श्वरव्यष्टयोऽप्यनन्ताः, तत्र प्राणमयमनोमयवाङ्मयरूपः प्रथमो विभागः, तिस्रश्च ब्रह्मादिमूर्तयस्तव्यष्टय इति ! इदमप्येकस्यैव चैतन्यस्य स्वमायाकल्पितविचित्रान्तःकरणदर्पणप्रतिबिम्बिततया विश्वतैजसप्राज्ञरूपविभाग 'इति क्लप्तिवदनादर्तव्यम् ॥ २९ ॥
इति सर्वानुवृत्तसन्मात्रब्रह्मत्वभङ्गः.
आनन्ददायिनी विशेषाः' इत्यादि ; तदाह-यदपीति । जीवविभागवदीश्वरविभागोऽपीत्यर्थः । अनादर्तव्यमिति । पायिक्लप्तिवत् प्रमाणशून्यत्वात् परित्याज्यमित्यर्थः । मायिभिरुक्तं ' अहमर्थो द्विविधो जीवरूप ईश्वररूपश्च ईश्वराह काररूपस्त्रिविधः सत्वरजस्तमोमयत्वभेदेन । तथा च तत्प्रतिबिम्ब ईश्वरोऽपि प्राज्ञतैजसविश्वरूपेण । ते च जाग्रत्खनसुषुप्तिप्रवर्तकाः' इति ॥
सर्वानुवृत्तसन्मात्रब्रह्मत्वभङ्गः.
1 इतिवद-पा. 2 कारोऽपि त्रिविधः-क. ४ तथा च प्रतिबिम्ब- क. SARVARTHA VOL. IV