________________
128
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
सर्वार्थसिद्धिः गर्भाः। अत एवाभेदश्रुतयोऽपि विशिष्टैक्यविषयाः स्थापनीयाः । किश्चाचेतनस्य चेतनस्य वा कस्यचिद्ब्रह्मत्वविधौ किमत्रेदं विधेयम् ? सत्त्वमिति चेत्तन्न ; सर्वत्र सर्वेषां सुप्रसिद्धत्वेन तदुपदेशायोगात् । कारणत्वमिति चेत्, तत्प्रातिस्विककार्य प्रति प्रसिद्धमेव । आदिकारणत्वं तु कार्यस्य विरुद्धम् । कार्यस्य कारणद्रव्यतादात्म्यमुपदिश्यत इति चेन्न, श्रुतिसिद्धविशिष्ट कारणतादात्म्ये त्वदिष्टासिद्धेः । प्रदर्शित च विशिष्टपरिणामस्य युष्माभिरपि दुस्त्यजत्वम् । ईश्वरत्वमंशान्तरयोरुपदिश्यत इति चेन्न; प्रत्यक्षाद्यशेषप्रमाणविरोधात् । न च परागादेः पर्वतत्वं शरावादेर्वा मणिकत्वं संव्यवहरन्ति । साजात्यविवक्षया तथा संव्यवहारः स्यादिति चेत्तत्र सत्ताजात्यैवेश्वरसाजात्यमुपदिष्ट स्यात् । तत्र चानुपदेश्यत्वमुक्तमेव । एवं सर्वश्रुतिबाधाब्रह्मसामानाधि'करण्यत्रैविध्य
आनन्ददायिनी उपाध्यनिर्देशेन सार्वकालिकत्वावगमादित्यर्थः । अभेदश्रुतिनिर्वाहमाहअत एवेति । नन्वभेदश्रुतिवशात् भेदश्रुतिरेव किमर्थमन्यथा न नेतव्या ; तथात्वेऽपि भेदनिर्देशस्य स्वारम्याहानेरित्यत्राह-किं चेति । ब्रह्मत्व विधाविति । सदेव' इत्यादिना सत्ता ब्रह्मत्वमिति गम्यते । 'यतो वा' इत्यादिना कारणत्वम्, अन्तर्यामिब्राह्मणानुरोधेन ईश्वरत्वमिति सन्देह इति भावः । तस्मात् भेदश्रुत्यनुसार एव न्याय्य इत्याह-एवमिति। ब्रह्मदत्तो ह्येवमाह-' ईश्वरस्य मनोमयवाङ्मयप्राणमयभेदेन प्रथमो विभागः। अनन्तरं ब्रह्मविष्णुरुद्ररूपेणापरो विभागः। मनोमयादयस्त्रयो मनोवाक्प्राणानामधिष्ठातारः । अधिष्ठानकाले च आदित्याग्निचन्द्रतेजस्त्रयमधिष्ठायाधितिष्ठन्ति । मनोवाक्प्राणाः सत्वतमोरजःपरिणाम1 करण्य त्रै-पा. विधायीति-ग. 3 तस्माद्भेद' इति ग-कोशे न दृश्यते.