________________
सरः ३] प्रत्यक्षागोचरत्वादिबोधकश्रुतिबाधादिप्रसञ्जनेन पूर्वानूदितमतनिरास 127
तत्त्वमुक्ताकलापः तस्मात् सर्वानुवृत्तं सदनवधिदशाचित्रमित्यप्ययुक्तं
प्रत्यक्षागोचरत्वप्रभृतिबहुभिदावादिसर्वोक्तिबाधात् ॥ २९ ।।
सर्वार्थसिद्धिः स्वभावगर्भम् । भोक्तभोग्यादीन् प्रक्रम्य · सर्व प्रोक्तं त्रिविध ब्रह्ममेतत्' इति श्रूयते । अत्र हि स्वरूपत्रैविध्यं स्वारसिकम् । 'ब्रह्म दाशा ब्रह्म दासा' इत्यादौ च ब्रह्मण एव दाशत्वादिकमाम्नातम् । तत्र व्यवधानक्लप्तिस्तु गुर्वी । तस्मात् स्वरूपतादात्म्येन चिदचिदीश्वरानुवृत्तं सद् ब्रह्मैकम् ; तदेव त्रितयपूर्वावान्तरव्यष्टिभिरनन्तविषमावस्थाविशिष्टमिति भावः । त्रयात्मक ब्रह्माणि चित्रपटन्यायसूचनार्थः चित्रशब्दः । एतदपि दूषयति-इत्यप्ययुक्तमिति । श्रुतस्य कथमयुक्तिरित्यत्राह-प्रत्यक्षेति । 'अद्रेश्यमग्राह्य 'निष्कलं निष्क्रिय शान्तम् ' इत्यादिभिः श्रुतिभिस्तावहाधस्सिद्धः । भेदश्रुतयश्च नाभेदं सहन्ते । शरीरात्मभावश्रुतयश्च भेद
आनन्ददायिनी दिति भावः । अत्र हीति । विशिष्टैक्यविषयत्वस्य स्वारस्यादिति भावः । अस्मिन्नर्थेऽनुग्राहकं चाह-ब्रह्म दाशा इति । ननु ब्रह्मदाशत्वादिक तच्छरीरत्वेनाप्युपपद्यत इत्यत आह-तत्र व्यवधानेति। चित्रपटन्यायेति । चिदचिदीश्वरात्मकत्वादिति भावः। बाधस्तावदिति । अद्रेश्यामिति प्रत्यक्षत्वनिषेधात् निष्कलमित्यवयवरूपविभागनिषेधात् निष्क्रियमिति विकारनिषेधात् बाध इत्यर्थः। भेदश्रुतयश्चेति । 'निरञ्जनः परमं साम्यं सर्वान्कामान् ब्रह्मणा विपश्चिता' 'नित्यो नित्यानां चेतनश्चेतनानाम् ' इत्यादिनिरुपाधिकभेदश्रुतय इत्यर्थः। शरीरात्मेति ।
1 इति च श्रू-पा. ' इत्यत्राह-ग.