SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 126 सव्याख्यसर्वार्थमिद्धिसहिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः सर्व ब्रह्मेत्यधीतं त्रिविधमिति च तद्दाशताद्यस्य चोक्तम्। सर्वार्थसिद्धिः नाङ्गीकृतम् ; एवमिहापि । अयं भावः-विश्वस्य स्वप्रकाशत्वं तावन्न निषेधुं शक्यम् ; प्रत्यात्मं स्वप्रकाशस्य परैरनुपलम्भेऽप्यङ्गीकारात् । चेतनत्वमपि घटादेर्न प्रत्यक्षतः प्रतिक्षेप्तुं युक्तम् ; परचैतन्ये सर्वत्र योग्यानुपलम्भाभावात् । कार्याभावादपि न तत्प्रतिक्षेपः. सुषुप्तयादिनयेन कार्याभावोपपत्त ; स्वभावभेदाच नित्यानुद्भवोपपत्तिरिति । चिद्रूपत्वे सिद्धे हि चैतन्यानुद्भवः कल्प्यः ; तदेव तु कथमित्यत्राह-सर्वमिति । ' सर्व खलु ' इति श्रुत्या सर्वम्य ब्रह्मत्वं विधीयते । तच्च ज्ञानादि आनन्ददायिनी नचानुद्भवादनुपलम्भः ; क्वचिदप्युपलम्भाभावप्रसङ्गादत आह-अयं भाव इति। किं स्वप्रकाशस्योपलम्भमात्रमापाद्यते; उत सर्वैरिति विकल्प्य नाद्य इत्याह-प्रत्यात्ममिति। चेतनत्वनिषेधासभवप्रतिपादनेनैव द्वितीय प्रत्याचष्टे-चेतनत्वमपीति। अयोग्यत्वान्न सर्वैरुपलम्भ इति भावः । ननु परचैतन्यस्य प्रत्यक्षानुपलम्भो भवतु न बाधकः ; तथाऽपि कार्याभावात्तन्निषेधः सिध्यतीत्यत आह-कार्याभावादपीति । ननु तर्हि सुप्त इव कदाचित्कार्य स्यादित्यत्राहस्वभावेति । उपलम्भानुरोधेन कल्प्यत्वादिति भावः । ननु ब्रह्मत्वविधाने विज्ञानत्वं कथमित्यत्राह-तच्चेति । 'सत्यं ज्ञानमनन्त ब्रह्म' इत्यादिवाक्या
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy