________________
124
सब्याख्यसर्वार्थिसिद्धिसहिततस्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः भिन्नाया ब्रह्मशक्तेविकृतय इति चेद् ब्रह्म जन्य त्वभङ्गो
भेदाभेदोपपाद्यं सकलमिति भते सप्तभङ्गी न दृष्या ॥ २८ ॥
सर्वार्थसिद्धिः 'स एव सृज्यः ' इत्यादिकमपि 'विशिष्टविषयम् । ‘स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् न कर्मणा वर्धते नो कनीयान् ' इत्यादिभिरकर्मवश्यतया प्रसिद्धस्य न खलु निरयनिपातादि दुरत्ययदुःख, कारणदुरितपराधीनानन्तजीवभावेन परिणामः । ' नास्य जरयैतज्जीयति' 'सत्य ज्ञानमनन्तं ब्रह्म' इत्यादिभिर्विकारजाड्या दिविधुरतया श्रुतस्य कथं तद्विपरीतविकारागमः ? । 'तत्र परोक्तं परिहाराभासं शङ्कते - भिन्नाया इति । अभिन्नत्वे परिहारगन्धाभावात् भिन्नत्वानुवादः। यदि ब्रह्मव्यतिरिक्ता तच्छक्तिर्विक्रियते तदा ब्रह्मण उपादानत्व न स्यात् । अनादितया श्रुतस्य त्रिकस्य जन्यत्वायोगश्च न परिहृत इत्यभिप्रायेणाह-ब्रह्मजन्यत्वभङ्ग इति । अथ शक्तिशक्तिमतोरभेदाब्रह्मण उपादानत्वर्नीिवकारत्वादिकमिनि परेष्ट मनुवक्ति-भेदाभेदेति । अत्रानिष्टमाह--सप्तभङ्गीति । म्यादम्ति स्यान्नास्तीत्यादीनां विरोध
आनन्ददायिनी त्राह–स एवेति । जीवभावेन परिणामे दोषमाह-स न साधुनेत्यादिना । अचिद्रूपेण परिणामे दोषमाह -नास्येत्यादिना । स्वव्याघातं चाह-अनादितयेति । नन्वस्मिन्नपि पक्षे निर्विका1 विश्वसृष्टिवि-पा. दुरन्वय-पा. दिभिर्विधुर-पा. 'अत्र-पा. मनुवदति-पा.