________________
मरः ३]
चिदचिदीश्वरविकारवद्ब्रह्मवादिमतस्यानुवाद पुरस्सरं निरसनम्
123
तत्त्वमुक्ताकलापः
यदीशादनधिकमनघं निर्विकारं श्रुतं तत् ।
सर्वार्थसिद्धिः नामप्युपादानोपादेयैक्यसंभवार्थत्वादृषिवचनस्यापि ' न चानषेर्दर्शनमस्ति किंचित् ' इति न्यायेन विरोधाधिकरणनीत्या चानपेक्ष्यत्वात् 'नित्यो नित्यानां चेतनश्चेतनानाम् ' 'अजामेकाम्' 'न त्वेवाहं जातु नासम्' 'प्रकृतिं पुरुषं चैव विद्धयनादी उभावपि ' इत्यादि. श्रुतिस्मृतिशतदृष्टेश्चापन्यायमूलमेतदित्यभिप्रायेणाह-नैतद्युक्तमिति । त्रिष्वपि विकारतयाऽभिमतेषु श्रुतिविरोधादयुक्तिमुपपादयति-यदीति । 'नारायण. परं ब्रह्म' इत्यादिभिरीश्वरस्यैव परब्रह्मत्वं सिद्धम् । अतो न तत्तदुपादानम् ; अवतारपरिणत्याऽपि नेश्वरस्योपादेयत्वम् ।
आनन्ददायिनी । दृष्टान्तेन न यावत्साम्यं वक्तव्यं, अपितु सिसाधयिषिततद्धर्मवत्तया। तथाचैककारणविज्ञानात्तदुपात्तसर्वकार्यविज्ञानस्य विवक्षितस्य साधने स्वरूपपरिणामो दार्टान्तिके नापादनीय इति भावः । कात्यायनवचनस्यान्यथासिद्धिमाह-ऋषीति । न चानृषेर्दर्शनमस्तीति । किंचित् श्रुत्या विरुद्धं ऋषयो यदि वदन्ति तस्य 'विरोधे त्वनपेक्षं 1 स्यादसति झनुमानम् ' इत्यादिभिरप्रामाण्यं सिद्धमित्यर्थः । श्रुतिविरोधमेव दर्शयति-नित्येति । अपन्यायमूलमेतदिति। एतत् मतमित्यर्थ इत्यन्ये । कात्यायनवचनमित्यपरे । अवतारेति । अवतारस्य ' सोऽकामयत इत्याद्युक्तजगदुपादानावस्थेश्वरावस्थान्तरत्वादिति भावः । ननु ‘स एव सृज्यः स्रष्टा च " इत्यादिवचनानां का गतिरिति चेत्त
1 स्यादित्यादिमिरप्रामाण्यमित्यर्थः-ग.