SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 122 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः ब्रह्मोपात्तान् विकारान कतिचिदभिदधुश्चेतनाचेतनेशान ___ सर्वार्थसिद्धिः नन्वेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय मृत्तत्कार्यदृष्टान्तस्तदपपादनात् , ईश्वराव्याकृतप्राणैर्विरासिन्धुरिवोर्मिभिः । यत्प्रनृत्यदिवाभति तस्मै सब्रह्मणे नमः ।। इति कात्यायनकारिकया च सद्ब्रह्मोदन्वदूर्मिभेदाश्चिदचिदीश्वरा इति निर्धार्यते, तदेतदनुवक्ति-ब्रह्मेति । अत्र प्रतिज्ञाया अनन्यथासिद्धबहुश्रुत्यविरोधाद्विशिष्टैकानेकविषयज्ञानार्थत्वात् दृष्टान्ता __ आनन्ददायिनी ननु ' यथैकस्मिन् ' मृण्मये पिण्डे विज्ञाने सर्व मृण्मयं विज्ञातं स्यात् ' इत्यादि दृष्टान्तानुरोधाच्चिदचितो ब्रह्मणाऽत्यन्तभेदो नास्त्येव, दोषस्तु कथंचित्परिहार्य इति शङ्कया संगतिरित्याह--नन्विति । विराट्छब्देन जीव उच्यते। अव्याकृतप्राणशब्दाभ्यां प्रकृतिस्तद्विकारश्च । ततश्च ब्रह्मण एव त ऊमय इव ऊर्मयः परिणामा इति । निर्धार्यत इति । यादवभास्करीयैरिति शेषः । अत्र प्रतिज्ञाया इति । एकविज्ञानप्रतिज्ञाया इत्यर्थः । अविरोधात-अविरोधायेत्यर्थः । अन्यथा भेदनिर्विकारनित्यनिर्दोषत्वादिश्रुतिविरोधः स्यादित्यर्थः । यथैकेनेत्यादि दृष्टान्तविरोधं परिहरति- दृष्टान्तानामपीति । न हि 1 मृण्मये विचाते-ग. 2 ब्रह्मात्यन्त-ग. 3 दृष्टान्तान्तरविरोध-क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy