SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सरः ३] ब्रह्मणिकिञ्चिद्वैशिष्टयाभ्युपगमावश्यंभावाच्छास्त्रानुमतचिदचिदैशिष्टयस्यैवौचित्य 121 तत्त्वमुक्ताकलापः नित्यत्वं विग्रहत्वं प्रकृतिपुरुषयोहेतुतां विश्व __ स्तद्वैशिष्टयं च शास्त्रप्रथितमजहतां कोऽपरा. धोऽतिरिक्तः ॥ २७॥ सर्वार्थसिद्धिः -सर्वात्मकं सद्रूपं ब्रह्म चिदचिदीश्वररूपांशत्रयशक्तिविशिष्टं समुद्र इव फेनबुद्बदतरङ्गप्रभेदेन सावान्तर 'भेद त्रिविधव्याष्टिभावेन परिणमत इति। एवमाद्वितीयश्रुत्यविरुद्धान्यविद्योपाधिशक्तिरूपविशेषणानि चेद्विचित्राचदचिदुपा दानतोपयोगीनि म्वीक्रियन्ते, तदा श्रुतिस्मृतिशतसिद्धशरीरविशेषणाभ्युपगमे क. प्रद्वेषः ? । स्वपक्षस्य प्रमाणतस्सिद्धिं विरोधाभावादौचित्यातिशयं च प्रपञ्चयति ---नित्यत्वमिति । कोऽपराधोऽतिरिक्त इत्यनेन विशेषणपरिग्रहमात्रमपराधश्श्चेत् सर्वेषामपि समानदोषत्वम् , अतिरिक्तापराधोऽपि तेषामेवेति व्यज्यते ।। २७ ॥ इति जगत्कारणवैशिष्टयावश्यंभावः. __ आनन्ददायिनी जीवादिभाव इत्यर्थः । अतिरिक्तापराधोऽपीति । साविद्यत्वविकारत्वाद्यपराध इत्यर्थः । मूले प्रकृतिजीवयोर्नित्यत्वं शरीरत्वं चेश्वरापेक्षयेत्यर्थः । शास्त्रप्रथितं-शास्त्र — यस्य पृथिवी शरीरं ' 'यस्याव्यक्तं शरीरं ' ' यस्यात्मा शरीरं' इत्यादिना प्रतिपादितमित्यर्थः ।। २७॥ जगत्कारणवैशिष्टयम् 1 भेद त्रिविध-पा. 2 दानत्वोप-पा. सिद्धस्वरूपविशेष-पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy