________________
120
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः साविद्य केऽपि सोपाधिकमथ कतिचिच्छक्तिभिर्जुष्टमन्ये
स्वीकृत्यैकाद्वितीय श्रुतिमपि जगदुस्तादेशिष्टैक्यनिष्ठाम् ।
सर्वार्थसिद्धिः एवं वैशिष्टयादुपादानमपि कतैव । अन्यैरपि त्रय्यन्तवादिभिर्यकिंचिद्वैशिष्टयमङ्गीकृतमित्याह-साविद्यामिति । अद्वैतव्याख्यायिनः खल्याहुः- " अनिर्वाच्याविद्याद्वितयसचिवस्य प्रभवतो
विवर्ता यस्यैते वियदनिलतेजोबवनयः ।"
इनि। भास्करीयास्तु-चिदचिदंशविभक्तं ब्रह्मद्रव्यमचिदंशेन विक्रियते, तद्विकारोपहितेन चिदंशेन संसरतीति । यादवप्रकाशीयास्तु
आनन्ददायिनी ननूपादनत्वसिद्धयर्थं वैशिष्टयं जगत्कर्तुरङ्गीक्रियते चेत् ‘एकमेवाद्वितीयं ' इत्यादिश्रुतिविरोध इत्याशङ्कय परिहरति-एवमिति । प्रसङ्ग एव सङ्गतिरित्यन्ये। कतैवोपादानमपीत्यर्थः । अविद्याद्वितयं मूलाविद्यातूलाविद्यारूपेणाविद्याद्वितयम् । मायाविद्यारूपेण द्वितयामिति केचित् । प्रभवतः उत्पद्यमानस्य । चिदचिदंशविभक्तमिति । चैतन्यमुपाधिश्च द्वितयं ब्रह्म, उपाधिपरिणामविशिष्टतया चिदंशस्य
1 प्रसङ्गसंगतिरित्यन्ये-क.