________________
सरः ३]
सद्वारकतया ईश्वरगतजगदुपादानत्वस्य निर्वाहे औचित्यकथनम्
119
तत्त्वमुक्ताकलापः सर्वश्रुत्यैकरस्यप्रणयिभिरुचितं द्वारमत्राभ्युपेतम् ॥ २६ ॥
सर्वार्थसिद्धिः किं न 'निरुह्यत इत्यत्राह- सर्वश्रुतीति। अन्यथा जीवानां प्रतिकल्पमुत्पत्तिप्रलयौ स्याताम् । अकृताभ्यागमः कृतविप्रणाशो विषमसृष्टयादिभङ्गश्च भवेयुः । ब्रह्मणस्तदशस्य वा सर्वेश्वरस्य "बहु स्याम्' इति सङ्कल्पयतोऽनादिजीवद्वारा क्लेशाद्यन्वयः, त्रिगुणांशद्वारा विकारान्वय इति पक्षेऽपि सर्वदोषाकरत्वं विरुद्धधर्माध्यासश्च दुम्त्यजः । अतश्चिदचिच्छरीरद्वारा बहुभवनादिकमिति कृत्स्नविद्भिनिरुह्यत इति ॥२६॥
इति इश्वरस्य जगन्निमित्तोपादानत्वोपपत्तिः.
आनन्ददायिनी निरुह्यत इति निपूर्वो रुहिः कल्पनार्थः । तेषां पक्षे विरोधमाहअन्यथेति। जीवानामिति । ' न जायते' 'नित्यो नित्याना' इत्यादिजीवविषयश्रुतिविरोध इत्यर्थः । विषमेति । तद्धेतुकर्माभावादिति भावः। ब्रह्मणस्तदंशस्य वेति मतभेदेन बोध्यम् ; जीवाभिन्नत्वादिति भावः । त्रिगुणांशद्वारेति । यादवभास्करमते त्रिगुणस्य ब्रह्मांशत्वादिति भावः । अत इति । तथा च स्वरूप उक्तदोषाभावादिति भावः ॥२६॥
ईश्वरस्य जगन्निमित्तोपादनत्वम्
1 निरुह्येतेत्यत्राह-पा.
तदशस्य सर्वेश्वरस्य वा बहु-पा.